नव ग्रह मन्त्रं
 
                                       ।। नवग्रह स्तोत्रम् ।।   जपाकुसुमसंकाशं काश्यपेय महाद्युतिम् । तमोऽरिं सर्वपापन्घं प्रणतोऽस्मि दिवाकरम्  ।। १ ।।  दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशि नं सोमं शम्भोर्मुकुटभूषणम् ।। २ ।।  धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम् ।   कुमारं शक्ति हस्तं तं  मंगलं  प्रणमाम्यहम् ।। ३ ।।  प्रियंगुकलिकाश्यां रुपेणाप्रणाप्रतिमं बुधम् ।   सौम्यं सौम्यगुणोपेतं तं बुधं  प्रणमाम्यहम् ।। ४ ।।  देवानां च ऋषीणां च गुरुं कांचनसन्निभम् ।   बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्  ।। ५ ।।  हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं  प्रणामाम्यहम् ।। ६ ।।  नीलांजनसमाभां रविपुत्रं यमाग्रजम् । छायामार्तण्ड़सम्भूतं तं नमामि  शनैश्चरम्  ।। ७ ।।  अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।   सिंहिकागर्भसम्भूतं तं राहुं  प्रणमाम्यहम् ।। ८ ।।  पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।   रौद्रं-रौद्रात्मकं घोरं तं केतु  प्रणमाम्यहम् ।। ९ ।।  इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः ।  दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ।। १० ।।  नरनारीनृप...
 
