संदेश

August, 2012 की पोस्ट दिखाई जा रही हैं

हरिस्तोत्रम् Hari strotram

हरिस्तोत्रम्

जगज्जालपालं चलत्कण्ठमालं
शरच्चन्द्रभालं महादैत्यकालम् ।
नभोनीलकायं दुरावारमायं
सुपद्मासहायं भजेऽहं भजेऽहम् ॥१॥
सदाम्भोधिवासं गलत्पुष्पहासं
जगत्सन्निवासं शतादित्यभासम् ।
गदाचक्रशस्त्रं लसत्पीतवस्त्रं
हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥२॥
रमाकण्ठहारं श्रुतिव्रातसारं
जलान्तर्विहारं धराभारहारम् ।
चिदानन्दरूपं मनोज्ञस्वरूपं
धृतानेकरूपं भजेऽहं भजेऽहम् ॥३॥
जराजन्महीनं परानन्दपीनं
समाधानलीनं सदैवानवीनम् ।
जगज्जन्महेतुं सुरानीककेतुं
त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥४॥
कृताम्नायगानं खगाधीशयानं
विमुक्तेर्निदानं हरारातिमानम् ।
स्वभक्तानुकूलं जगद्वृक्षमूलं
निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥५॥
समस्तामरेशं द्विरेफाभकेशं
जगद्बिम्बलेशं हृदाकाशदेशम् ।
सदा दिव्यदेहं विमुक्ताखिलेहं
सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥६॥
सुरालिबलिष्ठं त्रिलोकीवरिष्ठं
गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं महावीरवीरं
महाम्भोधितीरं भजेऽहं भजेऽहम् ॥७॥
रमावामभागं तलानग्रनागं
कृताधीनयागं गतारागरागम् ।
मुनीन्द्रैः सुगीतं सुरैः सम्परीतं
गुणौधैरतीतं भजेऽहं भजेऽहम् ॥८॥
इदं यस्तु नित्यं समाधाय चित्तं
पठेदष्टकं कण्ठहारं मु…

हरिद्रागणेशकवचम् Haridra Ganesh kawacham

हरिद्रागणेशकवचम् ईश्वर उवाच श्रृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये । पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् । सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥२॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि । सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥३॥ गणाक्रीडो नेत्रयुगं नासायां गणनायकः । गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥४॥ जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा । विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥५॥ गणानां नायकः पातु बाहुयुग्मं सदा मम । विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥६॥ गजवक्त्रः कटीदेशे एकदन्तो नितम्बके । लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥७॥ व्यालयज्ञोपवीती मां पातु पादयुगे सदा । जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥८॥ हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः । य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥९॥ कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् । सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥१०॥ सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् । सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥११॥ ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः । पठनाद्धारणादेव नाशमायन्ति तत्क्ष…

शालिग्रामस्तोत्रम् SHALIGRAM STOTRAM

शालिग्रामस्तोत्रम् अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः, नारायणो देवता, अनुष्टुप् छन्दः, श्रीशालिग्रामस्तोत्रमन्त्रजपे विनियोगः ॥ युधिष्ठिर उवाच श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तमः ॥१॥ श्रीभगवान उवाच गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥ शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥३॥ शालिग्रामशिला यत्र-यत्र द्वारावती शिला । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥४॥ आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालिग्रामशिलावारि पापहारि नमोऽस्तु ते ॥५॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥ शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥ स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् । प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥ अग्निष्टोमसहस्राणि वाजपेयशतानि च । सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥ नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः । योऽश्नाति न…

अघनाशकगायत्रीस्तोत्र aghnashak gayatri stotram

अघनाशकगायत्रीस्तोत्र आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तुते ॥१॥त्वमेव संध्या गायत्री सावित्रि च सरस्वती ।ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥२॥प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥३॥हंसस्था गरुडारूढा तथा वृषभवाहिनी ।ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥४॥यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥५॥रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥६॥सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥७॥आनन्दजननी दुर्गा दशधा परिपठ्यते ।वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥८॥गरिष्ठा च वराही च वरारोहा च सप्तमी ।नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ॥९॥भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥१०॥त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥११॥भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी ।भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥१२॥महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।तपस्विनी तपोलोके सत्यलोके तु स…

सदाशिवाष्टकम् Sadashivastakam

सदाशिवाष्टकम्पतञ्जलिःउवाचसुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिनेसुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।अपर्णया विहारिणे फणाधरेन्द्रधारिणेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥१॥सतुङ्ग भङ्ग जह्नुजा सुधांशु खण्ड मौलयेपतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।भुजङ्गराजमण्डलाय पुण्यशालिबन्धवेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥२॥चतुर्मुखाननारविन्दवेदगीतभूतयेचतुर्भुजानुजाशरीरशोभमानमूर्तये ।चतुर्विधार्थदानशौण्ड ताण्डवस्वरूपिणेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥३॥शरन्निशाकर प्रकाश मन्दहास मञ्जुलाधरप्रवाल भासमान वक्त्रमण्डल श्रिये ।करस्पुरत्कपालमुक्तरक्तविष्णुपालिनेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥४॥सहस्र पुण्डरीक पूजनैक शून्यदर्शनात्सहस्रनेत्र कल्पितार्चनाच्युताय भक्तितः ।सहस्रभानुमण्डलप्रकाशचक्रदायिनेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥५॥रसारथाय रम्यपत्र भृद्रथाङ्गपाणयेरसाधरेन्द्र चापशिञ्जिनीकृतानिलाशिने ।स्वसारथीकृताजनुन्नवेदरूपवाजिनेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥६॥अतिप्रगल्भ वीरभद्रसिंहनाद गर्जितश्रुतिप्रभीत दक्षयाग भोगिनाक सद्मनाम् ।गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणेसदा नमःशिवाय ते सदाशिवाय शंभवे ॥७॥मृकण्डुसूनु रक्षण…

लिंगाष्टकम्

लिंगाष्टकम्

ब्रह्ममुरारिसुरार्चितलिंङ्गं निर्मल-भाषित-शोभित लिंङ्गम् ।

जन्मज-दुःखविनाशकलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥१॥

देवमुनि-प्रवरार्चित लिंङ्गं, कामदहं करुणाकर लिंङ्गम् ।

रावणदर्प-विनाशनलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥२॥

सर्वसुगंन्धि-सुलेपित लिंङ्गं, बुद्धिविवर्धन-कारण लिंङ्गंम् ।

सिद्ध-सुराऽसुरवन्दितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥३॥

कनक-महामणि-भूषितलिंङ्गं,फणिपति-वेष्टित-शोधित लिंङ्गम् ।

दक्षसुयज्ञ-विनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥४॥

कुंकुम-चंदनलेपित लिंङ्गं, पंङ्कजहार-सुशोभित लिंङ्गम् ।

संञ्चित-पापविनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥५॥

अष्टदलोपरि वेष्टितलिंङ्गं, सर्वसमुद्भव-कारणलिंङ्गम् ।

अष्टदरिद्र-विनाशितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥७॥

सुरगुरू-सुरवरपूजितलिंङ्गं, सुरवनपुष्प-सदार्चितलिंङ्गम् ।

परात्परं परमात्मकलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥८॥

॥ इति श्री लिंगाष्टकम् सम्पूर्णम् ॥