संदेश

May, 2012 की पोस्ट दिखाई जा रही हैं

श्रीहरिशरणाष्टकम्

श्रीहरिशरणाष्टकम् ध्येयं वदन्ति शिवमेव हि केचिदन्ये । शक्तिं गणेशमपरे तु दिवाकरं वै ॥ रूपैस्तु तैरपि विभासि यतस्त्वमेव । तस्मात्त्वमेव शरणं मम दीनबन्धो॥ नो सोदरो न जनको जननी न जाया । नैवात्म्जोन च कुलं विपुलं बलं वा॥ संदृश्यते न किल कोऽपि सहायको मे। तस्मात्त्वमेवशरणं मम दीनबन्धो॥ नोपासिता मदमपास्य मया महान्त । स्तीर्थानीचास्तिकधिया न हि सेवितानि॥ देवार्चनं च विधिवन्न कृतं कदापि । तस्मात्त्वमेवशरणं मम दीनबन्धो॥ दुर्वासना मम सदा परिकर्पयन्ति । चित्तंशरीरमपि रोगगणा दहन्ति॥ संजीवनं च परहस्तगतं सदैव । तस्मात्त्वमेवशरणं मम दीनबन्धो॥ पूर्व कृतानि दुरितानि मया तु यानि । स्मृत्वाखिलानिहृदयं परिकम्पते मे॥ ख्याता च ते पतितपावनता तुयस्मात् । तस्मात्त्वमेवशरणं मम दीनबन्धो॥ दुःखं जराजननजं विविधाश्च रोगाः । काकश्वसूकरजनिर्निरये च पातः॥ ते विस्मृतेः फलमिदं विततं हि लोके । तस्मात्त्वमेवशरणं मम दीनबन्धो॥ नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि । ब्रूयात्तवाहमितियस्तु किलैकवारम्

श्रीपरमेश्वरस्तोत्रम् Shree Parmeshwar stotram

श्रीपरमेश्वरस्तोत्रम्जगदीश सुधीश भवेश विभोपरमेश परात्पर पूत पित:।प्रणतं पतितं हतबुद्धिबलंजनतारण तारय तापितकम्॥1॥गुणहीनसुदीनमलीनमतिंत्वयि पातरि दातरि चापरतिम्।तमसा रजसावृतवृत्तिमिमंजनतारण तारय तापितकम्2॥मम जीवनमीनमिमं पतितंमरुघोरभुवीह सुवीहमहो।करुणाब्धिचलोर्मिजलानयनंजनतारण तारय तापितकम्3॥भववारण कारण कर्मततौभवसिन्धुजले शिव मग्नमत:।करुणाञ्च सम‌र्प्य तरिं त्वरितंजनतारण तारय तापितकम्4॥अतिनाश्य जनुर्मम पुण्यरुचेदुरितौघभरै: परिपूर्णभुव:।सुजघन्यमगण्यमपुण्यरुचिं