संदेश

जून, 2013 की पोस्ट दिखाई जा रही हैं

श्रीराम षट्पदी स्तुति

श्रीराम षट्पदी स्तुति तरणिकुलजलतरणे तरुणतरणितेजसा विभातरणे । कृतविदशदशमुखमुखतिमिरगणेऽन्तस्तमो नुद मे ॥ १॥ शयविधृतशरशरासन निखिलखलोज्जासनप्रथितसुयशाः । मथितहृदयान्तरालं दुष्कृतिजालं ममापनय ॥ २॥ सुरुचिरमरीचिनिचयांश्चरणनखेन्दूनुदाय मम हृदये । हृदयेश विकलतापं स्वसकलतापं किलापहर ॥ ३॥ इन्दीवरदलसुन्दर वरदलसद्वामजानकीजाने । जाने त्वामखिलेशं लेशलसल्लोकलोकेशम् ॥ ४॥ शं कुरु शङ्करवल्लभ यल्लभतामाश्वयं त्वदंघ्रियुगे । अनुरक्तिदृढां भक्तिं चिरस्य चिन्ताब्धिभवभक्तिम् ॥ ५॥ वैराजराजराजोऽप्यभूत्सुसाकेतराजनरराजः । वानरराजसहायो लीलाकैवल्यमेतद्धि ॥ ६॥ जगदसुसुतासुपरवसुमुदे यदेषा स्तुतिः कृता स्फीता । सा रामषट्पदीयं विलसतु तत्पादजलजाते ॥ ७॥ ॥ इति श्रीमन्मालवीयशुक्ल श्रीमन्मथुरानाथप्रणीता रामषट्पदी ॥