संदेश

मार्च, 2013 की पोस्ट दिखाई जा रही हैं

विष्णुमहिम्नस्तोत्रम्

श्रीविष्णु-महिम्नस्तोत्रम्   महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २॥ शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः । दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३॥ क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः । क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहृतये स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४॥ हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो । क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधेरशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५॥ निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषाऽऽविश्य गहनम् । पयोराशिं पृष्ठे तमजित सलीलं घृतवतो जगद्ध

श्री शिवकवचम्

                                    श्री शिवकवचम् विनियोगः-  ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:। श्रीसदाशिवरुद्रो देवता। ह्रीं शक्‍ति:। रं कीलकम्। श्रीं ह्री क्लीं बीजम्। श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:। कर-न्यास: - ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्लांसर्वशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रुं अनादिशक्‍तिधाम्ने अघोरात्मने मध्यामाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वांरौं अलुप्तशक्तिधाम्ने सद्यो जातात्मने कनिष्ठिकाभ्यां नम: । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐयंर: अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्यां नम:। ॥ ध्यानम् ॥ वज्रदंष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् । सहस्रकरमत्युग्रं वंदे शंभुमुपतिम् ॥ १ ॥ ।।ऋषभ उवाच।। अथापरं सर्वपुराणगुह्यं निशे:षपापौघहरं पवित्रम् । जयप्रदं सर्वविपत्प्रमोचनं व

श्रीरघुनाथाष्टकम्

श्रीरघुनाथाष्टकम् श्रीरघुनाथाष्टकम् — रामस्तोत्राणि शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम् । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ १॥ निहन्तारं शैवं धनुरिव इवेक्षुं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम् । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ २॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितं ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम् । विरुपाद्राक्षस्याः प्रियविरहसन्तापमनसं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसम्मेलनसुखम् । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम् । विशुद्धामर्धाङ्गीं हुतभुजि समीक्षन्तमचलं ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम् ॥ ५॥ विमानं चारुह्याऽनुजजनकजासेवितपद मयोध्यायां गत्वा नृपपदमवाप्तारमजरम् । सुयज्ञैस्तृप्तारं निजमुखसुरान् शान्तम