मंत्र पुष्पाञ्जलि
मंत्र पुष्पाञ्जलि ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासान्। ते ह नाकं महिमान : सचंत। यत्र पुर्वे साध्या : संति देवा : । ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय महाराजाय नम : । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात सार्वभौम : सार्वायुषान्तादापरार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराडिती तदप्येष श्लोकोऽभिगीतो मरुत : परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवा : सभासद इति। ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् सं बाहुभ्यां धमति सं पट त्रै त्रैर्द्यावाभूमी जनयन् देव एकः ॥ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् । ॐ महालक्ष्म्यै नमः , मंत्रपुष्पाञ्जलि पुष्पं समर्पयामि ॥