श्रीकृष्ण प्रात:स्मरणम्
ॐ नमो भगवते वासुदेवाय ॥ श्रीकृष्ण गोविंद हरे मुरारे हे नाथ नारायण वासुदेव । प्रद्युम्न दामोदर विश्वनाथ मुकुंद विष्णो: भगवन् नमस्ते ॥ करारविन्देन पदारविन्दम् मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं । बालं मुकुन्दं मनसा स्मरामि ॥ कृष्णाय वासुदेवाय हरयेपरमात्मने । प्रणतक्लेशनाशाय गोविंदाय नमो नम: ॥ नमोस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरूबाहवे। सहस्त्रनाम्ने पुरूषाय शाश्वते सहस्त्रकोटी युग धारिणे नम:॥ भवे भवे यथा भक्ति: पादयोस्तव जायते । तथा कुरूष्व देवेश नाथस्त्वं नो यत: प्रभो ॥ नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम् । प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥