संदेश

जुलाई, 2012 की पोस्ट दिखाई जा रही हैं

अहिल्याकृतश्रीरामस्तोत्रम्

अहिल्याकृतश्रीरामस्तोत्रम् अहो कृतार्थाऽस्मि जगन्निवास ते पदाब्जसंलग्नरजःकणादहं। स्पृशामि यत्पद्मजशङ्करादिभि- र्विमृश्यते रन्धितमानसैः सदा ॥१॥ अहो विचित्रं तव राम चेष्टितम् मनुष्यभावेन विमोहितं जगत्। चलस्यजस्रं चरणादि वर्जितः संपूर्ण आनन्दमयोऽतिमायिकः॥२॥ यत्पादपंकजपरागविचित्रगात्रा भागीरथी भवविरिञ्चमुखान् पुनाति। साक्षात् स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥३॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्। धनुर्द्धरं पद्मविलोललोचनं भजामि नित्यं न परान् भजिष्ये ॥४॥ यत्पादपङ्कजरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च। यन्नामसाररसिको भगवान् पुरारिः तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥ यस्यावतारचरितानि विरिञ्चलोके गायन्ति नारदमुखाभवपद्मजाद्याः। आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥ सोयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः। मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एव रामः ॥७॥ अयं हि विश्वोद्भवसंयमाना- मेकः स्वमायागुणबिम्बितो यः। विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण अत्मा ॥८॥ नमोस्तु ते राम तवाङ्घ्रिपं

भगवत्यष्टकम्

भगवत्यष्टकम् नमोस्तु ते सरस्वति! त्रिशूलचक्रधारिणि! सितांबरावृते! शुभे! मृगेन्द्रपीठसंस्थिते! । सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे । सुवर्णपद्मभूषिते नमोस्तु ते महेश्वरि! ॥१॥ पितामहादिभिर्नते स्वकान्तिलुप्तचन्द्रभे सरत्नमालयावृते भवाब्धिकष्टहारिणि। तमालहस्तमण्डिते तमालफालशोभिते गिरामगोचरे इले नमोस्तु ते महेश्वरि! ॥२॥ स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे दरिद्रदुःखहारिणि त्रिलोकशंकरीश्वरि भवानि भीम अंबिके प्रचण्डतेज उज्ज्वले भुजाकलापमण्डिते नमोस्तु ते महेश्वरि! ॥३॥ प्रपन्नभीतिनाशिके! प्रसूनमाल्यकन्धरे धियस्तमोनिवारिके! विशुद्धबुद्धिकारिके सुरार्चिताङ्घ्रिपंकजे! प्रचण्डविक्रमेऽक्षरे! विशालपद्मलोचने! नमोस्तु ते महेश्वरि! ॥४॥ ह्तस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः । निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर- स्त्वये भयंकरे ध्रुवे नमोस्तु ते महेश्वरि!॥५॥ ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया। सकोपकंपदच्छदे स चण्डमुण्डघातिके मृगेन्द्रनादनादिते नमोस्तु ते महेश्वरि! ॥६॥ कुचन्दनार्चितालके सितोष्णवारणाधरे सवर्करानने वरे! निशुंभशुं

सङ्कटानामाष्टकम्

सङ्कटानामाष्टकम् आनन्दकानने देवी सङ्कटा नाम विश्रुता। वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च ॥१॥ शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणां । सङ्कटा प्रथमं नाम द्वितीयं विजया तथा ॥२॥ तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी। शर्वाणी पञ्चमं नाम षष्ठं कार्त्यायनी तथा॥३॥ सप्तमं भीमनयना सर्वरोगहराष्टमं नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः यः पठेत् पाठयेद्वापि नरो मुच्येत सङ्कटात् ॥४॥