संदेश

February, 2013 की पोस्ट दिखाई जा रही हैं

हिमालयकृतशिवस्तोत्रम्

हिमालयकृतशिवस्तोत्रम्
      ॥ हिमालय उवाच ॥ त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: । त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥ त्वमीश्‍वरो गुणातीतो ज्योतिरूप सनातन: । प्रकृत: प्रकृतीशश्‍च प्राकृत: प्रकृते पर: ॥ २ ॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥ सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् । सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥ वायुस्त्वं वरुणत्वं च विद्वांश्‍च विदुषां गुरु: । मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥ वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: । विदुषां जनकस्त्वं च विद्वांश्‍च विदुषं गुरु ॥ ६ ॥ मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: । वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्‍गुरु स्वयम् ॥ ७ ॥

सर्वसिद्धिप्रदायक श्रीगणेशकवचम्

सर्वसिद्धिप्रदायक श्रीगणेशकवचम् 
श्रृणु वक्ष्यामि कवचं, सर्व-सिद्धि-करं प्रिये !
पठित्वा धारयित्वाच, मुच्यते सर्व-सङ्कटात्।।
आमोदश्च शिरः पातु, प्रमोदश्च शिखोपरि।
सम्मोदोभ्रू-युगे पातु, भ्रू-मध्ये तु गणाधिपः।।
गण-क्रीडो नेत्र-युग्मे, नासायांगणनायकः।
गण-क्रीडान्वितः पातु, वदने सर्व-सिद्धये।।
जिह्वायां सुमुखः पातु, ग्रीवायां दुर्मुखः सदा।
विघ्नेशो हृदयं पातु, विघ्ननाशश्च वक्षसि।।
गणानांनायकः पातु, बाहुयुग्मे सदा मम।
विघ्न-कर्त्ता च उदरे, विघ्नभर्त्ता चमेयोनौ।।
गज-वक्त्रः कटी-देशे, एकसन्तो नितम्बके।
लम्बोदरः सदा पातु, गुह्यदेशे ममारुणः।।
व्याल-यज्ञोपवीती मां, पातु पाद-युगे तथा।
जापकः सर्वदापातु, जानुजङ्घे गणाधिपः।।
हरिद्रः सर्वदा पातु, सर्वाङ्गे गण-नायकः।
य इदंप्रपठेन्नित्यं, गणेशस्य महात्मनः।।
कवचं सर्व-सिद्धाख्यं, सर्वविघ्न-विनाशनं।
सर्व-सिद्धि-करं साक्षात्, सर्वपाप-प्रमोचनम्।।
सर्व-सम्पत्-प्रदं साक्षात्, सर्वशत्रु-क्षय-करं।
ग्रह-पीडा ज्वरो रोगो,

कल्किकृत शिवस्तोत्रम्

कल्किकृत शिवस्तोत्रम्
गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् । त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम्॥॥योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम्। जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि ॥२॥श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको.अस्तमेति ॥३॥यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः। प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥४॥स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति । ब्रह्माद्यंशे यो.अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥५॥यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ।शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥६॥यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ।मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥७॥॥इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रं सम्पूर्णम्॥

श्रीमहादेवाष्टकम्

श्रीमहादेवाष्टकम्
शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ॥ गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेव वन्दे प्रणतजनतापोपशमनम् ॥१॥ सदा सेव्यं भक्तैर्ह्रदि ह्रदि वसन्तंगिरिशय -मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् ॥ त्रिनेत्रं पञ्चास्य दशभुजमनन्तं शशिधरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥२॥ चित्ताभस्मालिप्तं भुजंगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् ॥ करोटीखट्‌वांगे ह्यरसि च दधानं मृतिहरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥३॥ सदोत्साहं गंगाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् ॥ जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥४॥ वसन्त कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्म निखिलमनुजानन्दजनकम् ॥ महेशानी साक्षात्सनकमुनिदेवार्षिसहिता महादेव वन्दे प्रणतजनतापोपशमनम् ॥५॥ शिवां स्वेवामांगे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरलं कण्ठविवरे ॥ ललाटे श्वेतेन्दु जगदपि दधानं च जठरे महादेव वन्दे प्रणतजनतापोपशमनम् ॥६॥ सुराणां दैत्यानां बहुलमनुजानां बहुविधं तपः कुर्वाणानां झटिति फलदातारमखिलम् ॥

श्री लक्ष्मीकवचम्

श्री लक्ष्मीकवचम्

शिरो मे रक्षताद् देवी, पद्मा पंकजधारिणी । भालं पातु जगन्माता, लक्ष्मीः पद्मालया च मे ।। मुखं पायान्महा-माया, दृषौ मे भृगुकन्यका । घ्राणं सिन्धु-सुता पायान् नेत्रे मे विष्णुवल्लभा ।। कण्ठं रक्षतु कौमारी, स्कन्धौ पातु हरिप्रिया । हृदयं मे सदा रक्षेत् सर्व-शक्तिविधायिनी ।। नाभिं सर्वेष्वरी पायात् सर्वभूतालया च मे । कटिं च कमला पातु, उरू ब्रह्मादिदेवता ।। जंघे जगन्मयी रक्षेत्, पादौ सर्वसुखावहा। श्री वीजवासनिरता, सर्वांगे जनकात्मजा ।। सर्वतोभद्र-रूपा मामव्याद् दिक्षु विदिक्षु च । विषमे संगटे दुर्गे, पातु मां व्योमवासिनी ।।