संदेश

जून, 2012 की पोस्ट दिखाई जा रही हैं

सङ्कष्टहरणं गणेशाष्टकम्

सङ्कष्टहरणं गणेशाष्टकम् ॐ अस्य श्रीसकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिदेवता, सकष्टहरणार्थे जपे विनियोगः। ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतनीलं कलयति मनसस्तेज-सिन्दूर-मूर्तिम्। योगीन्द्रैर्ब्रह्मरंध्रैः सकल-गुणमयं श्रीहरेंद्रेंणसङ्गं गं गं गं गणेशंगजमुखमभितो व्यापकं चिन्तयन्ति ॥१॥ वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं क्रं क्रं क्रं क्रोधमुद्रा-दलित-रिपुबलं कल्पवृक्षस्य मूले । दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिधियं सिद्धि-बुद्धि-द्वितीयम्॥२॥ तुं तुं तुं तुंङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान् क्लीं क्लीं क्लींकारनाथं गलित-मदमिलल्लोल-मत्तालिमालम् । ह्रीं ह्रीं ह्रीं कारपिङ्गं सकलमुनिवर-ध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्री श्रयन्तं निखिल-निधिकुलं नौमि हेरम्बविम्बम्॥३॥ लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्। डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च॥४॥ हुं हुं हुं हेमवर्णं श्रुति-