संदेश

सितंबर, 2012 की पोस्ट दिखाई जा रही हैं

विष्णुकृत गणेशस्तोत्रम्

                 विष्णुकृत गणेश स्तोत्रम्                     नारायण उवाच अथ विष्णु : सभामध्ये सम्पूज्य तं गणेश्वरम्। तृष्टाव परया भक्त्या सर्वविघन्विनाशकम्॥                 श्रीविष्णुरुवाच ईशत्वां स्तोतुमिच्छामि ब्रह्मज्योति : सनातनम्। निरूपितुमशक्तोऽहमनुरूपमनीहकम्॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्। सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्। वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम्॥ संसारार्णवपारे च मायापोते सुदुर्लभे। कर्णधारस्वरूपं च भक्तानुग्रहकारकम्॥ वरं वरेण्यं वरदं वरदानामपीश्वरम्। सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम्॥ ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्। धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्॥ बीजं संसारवृक्षाणामङ्कुरं च तदाश्रयम्। स्त्रीपुन्नपुंसकानां च रूपमेतदतीन्द्रियम्॥ सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम्। स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया॥ स्व्यं प्रकृतिरूपं च प्राकृतं प्रकृते : परम्। त्वां

संसारमोहन गणेशकवचम्

                संसारमोहन गणेशकवचम्                  विष्णुरुवाच संसारमोहनस्यास्य कवचस्य प्रजापति:। ऋषिश्छन्दश्च बृहती देवो लम्बोदर: स्वयम्॥ धर्मार्थकाममोक्षेषु विनियोग: प्रकीर्तित:। सर्वेषां कवचानां च सारभूतमिदं मुने॥ ॐ गं हुं श्रीगणेशाय स्वाहा मे पातुमस्तकम्। द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदावतु॥ ॐ ह्रीं क्लीं श्रीं गमिति च संततं पातु लोचनम्। तालुकं पातु विध्नेशःसंततं धरणीतले॥ ॐ ह्रीं श्रीं क्लीमिति च संततं पातु नासिकाम्। ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम॥ दन्तानि तालुकां जिह्वां पातु मे षोडशाक्षर:॥ ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदावतु। ॐ क्लीं ह्रीं विघन्नाशाय स्वाहा कर्ण सदावतु॥ ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदावतु। ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदावतु॥ ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्ष:स्थलं च गम्। करौ पादौ सदा पातु सर्वाङ्गं विघन्निघन्कृत्॥ प्राच्यां लम्बोदर: पातु आगन्य्यां विघन्नायक:। दक्षिणे पातु विध्नेशो नैर्ऋत्यां तु गजानन:॥ पश्चिमे पार्वतीपुत्रो वायव्यां शंकरात्मज:। कृष्णस्यांशश्चोत्तरे च परिपूर्णतमस्य च॥ ऐशान्यामेकदन्त

गणेशस्तवन

गणेशस्तवन चतु:षष्टिकोटयाख्यविद्याप्रदं त्वां सुराचार्यविद्याप्रदानापदानम्। कठाभीष्टविद्यार्पकं दन्तयुग्मं कविं बुद्धिनाथं कवीनां नमामि॥ स्वनाथं प्रधानं महाविघन्नाथं निजेच्छाविसृष्टाण्डवृन्देशनाथम्। प्रभुं दक्षिणास्यस्य विद्याप्रदं त्वां कविं बुद्धिनाथं कवीनां नमामि॥ विभो व्यासशिष्यादिविद्याविशिष्ट प्रियानेकविद्याप्रदातारमाद्यम्। महाशाक्तदीक्षागुरुं श्रेष्ठदं त्वां कविं बुद्धिनाथं कवीनां नमामि॥ विधात्रे त्रयीमुख्यवेदांश्च योगं महाविष्णवे चागमाञ्शंकराय। दिशन्तं च सूर्याय विद्यारहस्यं कविं बुद्धिनाथं कवीनां नमामि॥ महाबुद्धिपुत्राय चैकं पुराणं दिशन्तं गजास्यस्य माहात्म्ययुक्तम्। निजज्ञानशक्त्या समेतं पुराणं कविं बुद्धिनाथं कवीनां नमामि॥ त्रयीशीर्षसारं रुचानेकमारं रमाबुद्धिदारं परं ब्रह्मपारम्। सुरस्तोमकायं गणौघाधिनाथं कविं बुद्धिनाथं कवीनां नमामि॥ चिदानन्दरूपं मुनिध्येयरूपं गुणातीतमीशं सुरेशं गणेशम्। धरानन्दलोकादिवासप्रियं त्वां कविं बुद्धिनाथं कवीनां नमामि॥ अनेकप्रतारं सुरक्ताब्जहारं परं निर्गुणं विश्वसद्ब्रह्मरूपम्। महावाक्यसंदोहतात्पर्यमूर्ति कविं बुद्ध

मयूरेशस्तोत्रम्

                       मयूरेशस्तोत्रम्                 ब्रह्मोवाच पुराणपुरुषं देवं नानाक्रीडाकरं मुदा। मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम्॥ परात्परं चिदानन्दं निर्विकारं हृदि स्थितम्। गुणातीतं गुणमयं मयूरेशं नमाम्यहम्॥ सृजन्तं पालयन्तं च संहरन्तं निजेच्छया। सर्वविघन्हरं देवं मयूरेशं नमाम्यहम्॥ नानादैत्यनिहन्तारं नानारूपाणि विभ्रतम्। नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्॥ इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम्। सदसद्वयक्तमव्यक्तं मयूरेशं नमाम्यहम्॥ सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्। सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्॥ पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम्। भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्॥ मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्। समाष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्॥ सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्। सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्॥ अनेककोटिब्रह्माण्डनायकं जगदीश्वरम्। अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्॥              मयूरेश उवाच इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्। सर्वकामप्रदं नृणां सर्वोपद्रवनाशनम्॥ कारागृहगतानां च मोचनं दिनसप्