हिमालयकृतशिवस्तोत्रम्
हिमालयकृतशिवस्तोत्रम् ॥ हिमालय उवाच ॥ त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: । त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥ त्वमीश्वरो गुणातीतो ज्योतिरूप सनातन: । प्रकृत: प्रकृतीशश्च प्राकृत: प्रकृते पर: ॥ २ ॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥ सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् । सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥ वायुस्त्वं वरुणत्वं च विद्वांश्च विदुषां गुरु: । मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥ वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: । विदुषां जनकस्त्वं च विद्वांश्च विदुषं गुरु ॥ ६ ॥ मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: । वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्गुरु स्वयम् ॥ ७ ॥ अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वर: । इत्येवमुक्त्वा शैलेन्द्रस्तस्थौधृत्वा पदांब्रुजम् ॥ ८ ॥ तत्रोवास तमाबोध्य चावरुह्यवृषाच्छिव: । स्तोत्रमेतन्महापुण्यं त्रिसंध्यं य: पठेन्नर: ॥ ९ ॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे । अपु...