श्रीमहादेवाष्टकम्

           श्रीमहादेवाष्टकम्

शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं
महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ॥
गिरीशं गौरीशं भवभयहरं निष्कलमजं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥१॥
सदा सेव्यं भक्तैर्ह्रदि ह्रदि वसन्तंगिरिशय
-मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् ॥
त्रिनेत्रं पञ्चास्य दशभुजमनन्तं शशिधरं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥२॥
चित्ताभस्मालिप्तं भुजंगमुकुटं विश्वसुखदं
धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् ॥
करोटीखट्‌वांगे ह्यरसि च दधानं मृतिहरं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥३॥
सदोत्साहं गंगाधरमचलमानन्दकरणं
पुरारातिं भातं रतिपतिहरं दीप्तवदनम् ॥
जटाजूटैर्जुष्टं रसमुखगणेशानपितरं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥४॥
वसन्त कैलासे सुरमुनिसभायां हि नितरां
ब्रुवाणं सद्धर्म निखिलमनुजानन्दजनकम् ॥
महेशानी साक्षात्सनकमुनिदेवार्षिसहिता
महादेव वन्दे प्रणतजनतापोपशमनम् ॥५॥
शिवां स्वेवामांगे गुहगणपतिं दक्षिणभुजे
गले कालं व्यालं जलधिगरलं कण्ठविवरे ॥
ललाटे श्वेतेन्दु जगदपि दधानं च जठरे
महादेव वन्दे प्रणतजनतापोपशमनम् ॥६॥
सुराणां दैत्यानां बहुलमनुजानां बहुविधं
तपः कुर्वाणानां झटिति फलदातारमखिलम् ॥
सुरेशं विद्येशं जलनिधिसुताकान्तह्रदयं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥७॥
वसानं वैयाघ्री मृदुलललितां कृत्तिमजरां
वृषारूढं सृष्ट्यादिषु कमलजाद्यात्मकपुषम् ॥
अतर्क्य निर्मायं तदपि फलदं भक्तसुखदं
महादेव वन्दे प्रणतजनतापोपशमनम् ॥८॥
इदं स्तोत्रं शम्भोर्दुरितदलनं धान्यधनदं ह्रदि
ध्यात्वा शम्भुं तदनु रघुनाथेन रचितम् ॥
नरः सायं प्रातः पठति नियतं तस्य विपदः
क्षयं यान्ति स्वर्ग व्रजति सहसा सोऽपि मुदितः ॥९॥
॥इति श्रीपण्डितरघुनाथशर्मणा विरचितं श्रीमहादेवाष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram