मंत्र पुष्पाञ्जलि
मंत्र पुष्पाञ्जलि
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासान्।
ते ह नाकं महिमान: सचंत। यत्र पुर्वे साध्या: संति देवा:।
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय महाराजाय नम:।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात सार्वभौम: सार्वायुषान्तादापरार्धात्।
पृथिव्यै समुद्रपर्यन्ताया एकराडिती तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्
सं बाहुभ्यां धमति सं पट त्रै त्रैर्द्यावाभूमी जनयन् देव एकः ॥
महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ।
ॐ महालक्ष्म्यै नमः, मंत्रपुष्पाञ्जलि पुष्पं समर्पयामि ॥
टिप्पणियाँ