शिवरक्षास्तोत्रं shiv raksha stotram
शिवरक्षास्तो त्रं अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता अनुष्टुप् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देव-देवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः । उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिंधुः सर्वाङ्गानि ...