विश्वनाथाष्टकम् vishvanaathashtakam
विश्वनाथाष्टकम्
गङ्गातरङ्ग-रमणीय-जटाकलापं
गौरीनिरंतर-विभूषित-वामभागम् ।
नारायणप्रियमनङ्गमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ १ ॥
वाचामगोचरमनेकगुणस्वरूपं
वागीश-विष्णु-सुरसेवित-पादपीठम् ।
वामेन विग्रहवरेण कलत्रवंतं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ २ ॥
भूताधिपं भुजग-भूषण-भूषितांङ्गं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।
पाशांङ्कुशा-भयवरप्रद-शूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३ ॥
शीतांशु-शोभित-किरीट-विराजमानं
भालेक्षणानल-विशोषित-पंञ्चबाणम् ।
नागाधिपा-रचित-भासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४ ॥
पञ्चाननं दुरितमत्त-मतङ्गजानां
नागान्तकं दनुजपुंङ्गव-पन्नगानाम् ।
दावानलं मरणशोक-जराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ॥ ५ ॥
तेजोमयं सगुण-निर्गुणमदितीय-
मानंदकंदमपराजितमप्रमेयम् ॥
नागात्मकं सकल-निष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ ६ ॥
आशां विहाय परिहृत्य परस्यनिंदाम्
पापे मतिं च सुनिवार्य मन: समाधौ ।
आदाय हृत्कमलमन्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ॥ ७ ॥
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशांतिनिलयं गिरिजासहायम् ।
माधुर्य-धैर्य-सुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम्॥ ८ ॥
वाराणसीपुरपते: स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनष्य: ॥
विद्यां श्रियं विपुल-सौख्यमनंतकीर्तिं
संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
विश्वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥
॥इति श्रीमहर्षिव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ।
टिप्पणियाँ