शिवषडाक्षरस्तोत्रम् shiv shadakshar stotram
शिवषडाक्षरस्तोत्रम्
ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: ।
कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥
नमंतिऋषयो देवा नमन्त्यप्सरसां गणा: ।
नरा नमन्तिदेवेशं नकाराय नमो नम: ॥ २ ॥
महादेवं महात्मानं महाध्यानं परायणम् ।
महापापहरं देवं मकाराय नमो नम: ॥ ३ ॥
शिवं शांन्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥
वाहनं वृषभो यस्य वासुकि: कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥
यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : ।
यो गुरुः सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥
षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
॥इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम् ॥
टिप्पणियाँ