श्रीकृष्ण प्रात:स्मरणम्
ॐ नमो भगवते वासुदेवाय ॥
श्रीकृष्ण गोविंद हरे मुरारे
हे नाथ नारायण वासुदेव ।
प्रद्युम्न दामोदर विश्वनाथ
मुकुंद विष्णो: भगवन् नमस्ते ॥
श्रीकृष्ण गोविंद हरे मुरारे
हे नाथ नारायण वासुदेव ।
प्रद्युम्न दामोदर विश्वनाथ
मुकुंद विष्णो: भगवन् नमस्ते ॥
करारविन्देन पदारविन्दम्
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं ।
बालं मुकुन्दं मनसा स्मरामि ॥
कृष्णाय वासुदेवाय हरयेपरमात्मने ।
प्रणतक्लेशनाशाय गोविंदाय नमो नम: ॥
नमोस्त्वनन्ताय सहस्त्रमूर्तये
सहस्त्रपादाक्षिशिरोरूबाहवे।
सहस्त्रनाम्ने पुरूषाय शाश्वते
सहस्त्रकोटी युग धारिणे नम:॥
भवे भवे यथा भक्ति: पादयोस्तव जायते ।
तथा कुरूष्व देवेश नाथस्त्वं नो यत: प्रभो ॥
नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम् ।
प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥
टिप्पणियाँ