श्रीशंकराष्टकम्
श्रीशंकराष्टकम्
शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालम् ।
कृतनरमस्तकमालं कालं कालस्य मोमलं वन्दे ॥ २ ॥
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥
त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैवसंशान्तम् ।
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥ ५ ॥
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदयालयावेशम् ।
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे ॥ ६ ॥
करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् ।
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे ॥ ७ ॥
भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ।
प्रमथसमूह सहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८ ॥
यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन निर्मितं नित्यम् ।
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेवपदम् ॥ ९ ॥
॥इति श्री ब्रह्मानन्दविरचितम् श्रीशंकराष्टकम् सम्पूर्णं॥
टिप्पणियाँ