श्री बगलाप्रत्यंगिरा कवचम्


श्री बगलाप्रत्यंगिरा कवचम्
          शिव उवाच  
अधुनाऽहं प्रवक्ष्यामि बगलायाःसुदुर्लभम्
यस्य पठन मात्रेण पवनोपि स्थिरायते
प्रत्यंगिरां तां देवेशि श्रृणुष्व कमलानने
यस्य स्मरण मात्रेण शत्रवो विलयं गताः
 
                  श्री देव्युवाच  
स्नेहोऽस्ति यदि मे नाथ संसारार्णव तारक
तथा कथय मां शम्भो बगलाप्रत्यंगिरा मम
 
        श्री भैरव उवाच  
यं यं प्रार्थयते मन्त्री हठात्तंतमवाप्नुयात्
विद्वेषणाकर्षणे स्तम्भनं वैरिणां विभो
उच्चाटनं मारणं येन कर्तुं क्षमो भवेत्
तत्सर्वं ब्रूहि मे देव यदि मां दयसे हर
      शिवउवाच
अधुना हि महादेवि परानिष्ठा मतिर्भवेत्
अतएव महेशानि किंचिन्न वक्तुतुमर्हसि
         श्री पार्वत्युवाच  
जिघान्सन्तं तेन ब्रह्महा भवेत्
श्रृतिरेषाहि गिरिश कथं मां त्वं निनिन्दसि
           श्री शिव उवाच  
साधु-साधु प्रवक्ष्यामि श्रृणुष्वावहितानघे
प्रत्यंगिरां बगलायाःसर्वशत्रुनिवारिणीम्
नाशिनीं सर्वदुष्टानां सर्वपापौघहारिणिम्
सर्वप्राणि हितां देवीं सर्वदुःख निवारिणीम्
भोगदां-मोक्षदां चैव राज्य सौभाग्यदायिनीम्
मन्त्रदोष प्रमोचनीं ग्रहदोष विनाशिनीम्

                विनियोग
अस्य श्रीबगला प्रत्यंगिरा मन्त्रस्य नारद ऋषि
स्त्रिष्टुप् छन्दःप्रत्यंगिरा देवता ह्लीं बीजं हुं शक्तिः ह्रीं कीलकं ह्लीं ह्लीं ह्लीं ह्लीं प्रत्यंगिरा मम शत्रु विनाशे विनियोगः
प्रत्यंगिरायै नमः प्रत्यंगिरे सकलकामान् सिद्ध्यर्थं मम रक्षां कुरु-कुरु सर्वान् शत्रून् खादय-खादय मारय-मारय घातय-घातय ह्रीं फट् स्वाहा
भ्रामरी स्तम्भिनी देवी क्षोभिणी मोहिनी तथा
संहारिणी द्राविणी जृम्भिणी रौद्ररुपिणी
इत्यष्टौ शक्तयो देवि शत्रु पक्षे नियोजिताः
धारयेत् कण्ठदेशे सर्वशत्रु विनाशिनी
ह्रीं भ्रामरि सर्वशत्रून् भ्रामय-भ्रामय ह्रीं स्वाहा
ह्रीं स्तम्भिनी मम शत्रून् स्तम्भय-स्तम्भय ह्रीं स्वाहा
ह्रीं क्षोभिणी मम शत्रून् क्षोभय-क्षोभय ह्रीं स्वाहा
ह्रीं मोहिनी मम शत्रून्मोहय-मोहय ह्रीं स्वाहा
ह्रीं संहारिणि मम शत्रून् संहारय-संहारय ह्रीं स्वाहा
ह्रीं द्राविणि मम शत्रून् द्रावय-द्रावय ह्रीं स्वाहा
ह्रीं जृम्भिणि मम शत्रून् जृम्भय-जृम्भय ह्रीं स्वाहा
ह्रीं रौद्रि मम शत्रून् सन्तापय-सन्तापय ह्रीं स्वाहा
इयं विद्या महाविद्या सर्वशत्रु निवारिणी
धारिता साधकेन्द्रेण सर्वान् दुष्टान् विनाशयेत्
त्रिसन्ध्यमेकसन्धऽयं वा यः पठेत्स्थिरमानसः
तस्य दुर्लभं लोके कल्पवृक्ष इव स्थितः
यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा
एव दासतां याति सारात्सारामिमं मनुम्

श्री रुद्रयामले शिव-पार्वती संवादे बगला प्रत्यंगिरा कवचम्


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram