श्रीकपालीश्वराष्टकम् shree kapaalishwarashtakam

श्रीकपालीश्वराष्टकम्

ध्यानम्
कल्पकाम्बाकपालीशौ भक्तरक्षणतत्परौ ।
तयोः अनुग्रहो यत्र वर्तते तत्र मङ्गलम् ॥

स्तोत्रम्
कपालिनामधेयकं कलापिपुर्यधीश्वरं
कलाधरार्धशेखरं करीन्द्रचर्मभूषितम् ।
कृपारसार्द्रलोचनं कुलाचलप्रपूजितं
कुबेरमित्रमूर्जितं गणेशपूजितं भजे ॥१॥
भजे भुजङ्गभूषणं भवाब्धिभीतिभञ्जनं
भवोद्भवं भयापहं सुखप्रदं सुरेश्वरम् ।
रवीन्दुवह्निलोचनं रमाधवार्चितं वरं
ह्युमाधवं सुमाधवीसुभूषिअतं महागुरुम् ॥२॥
गुरुं गिरीन्द्रधन्विनं गुहप्रियं गुहाशयं
गिरिप्रियं नगप्रियासमन्वितं वरप्रदम् ।
सुरप्रियं रविप्रभं सुरेन्द्रपूजितं प्रभुं
नरेन्द्रपीठदायकं नमाम्यहं महेश्वरम् ॥३॥
महेश्वरं सुरेश्वरं धनेश्वरप्रियेश्वर।म्
वनेश्वरं विशुद्धचित्त वासिनं परात्परम् ।
प्रमत्तवेषधारिणं प्रकृष्टचित्स्वरूपिणं
विरुद्धकर्मकारिणं सुशिक्षकं स्मराम्यहम् ॥४॥
स्मराम्यहं स्मरान्तकं मुरारिसेविताङ्घ्रिकं
परारिनाशनक्षमं पुरारि रूपिणं शुभम् ।
स्पुअरत्सहस्रभानुतुल्य तेजसं महौजसं
सुचण्डिकेश पूजितं मृडं समाश्रये सदा ॥५॥
सदा प्रहृष्टरूपिणं सतां प्रहर्षवर्षिणं
भिदा विनाशकारण प्रमाणगोचरं परम् ।
मुदा प्रवृत्तनर्तनं जगत्पवित्रकीर्तनं
निदानमेकमद्भुतं नितान्तमाश्रयेह्यहम् ॥६॥
अहंममादि दूषणं महेन्द्ररत्नभूषणं
महावृषेन्द्रवाहनं ह्यहीन्द्रभूषणान्वितम् ।
वृषाकपिस्वरूपिणं मृषापदार्थधारिणं
मृकण्डुसूनुसंस्तुतं ह्यभीतिदं नमामि तम् ॥७॥
नमामि तं महामतिं नतेष्टदानचक्षणं
नतार्तिभञ्जनोद्यतं नगेन्द्रवासिनं विभुम् ।
अगेन्द्रजा समन्वितं मृगेन्द्र विक्रमान्वितं
खगेन्द्रवाहनप्रियं सुखस्वरूपमव्ययम् ॥८॥
सुकल्पकाम्बिकापतिप्रियंत्विदं मनोहरं
सुगूडकाञ्चिरामकृष्ण योगिशिष्य संस्तुतम् ।
महाप्रदोष पुण्यकाल कीर्तनात्शुभप्रदं
भजामहे सदामुदा कपालि मङ्गळाष्टकम् ॥९॥
कपालि तुष्टिदायकं महापदि प्रपालकं
त्वभीष्टसिद्धिदायकं विशिष्टमङ्गलाष्टकम् ।
पठेत्सुभक्तितः कपालि सन्निधौ क्रमात्
अवाप्य सर्वमायुरादि मोदते सुमङ्गलम् ॥१०॥

॥ इति श्रीकपालीश्वराष्टकं सम्पूर्णम् ॥




टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram