विष्णुकृत गणेशस्तोत्रम्

                विष्णुकृत गणेशस्तोत्रम्
                    नारायण उवाच
अथ विष्णु: सभामध्ये सम्पूज्य तं गणेश्वरम्।
तृष्टाव परया भक्त्या सर्वविघन्विनाशकम्॥
                श्रीविष्णुरुवाच
ईशत्वां स्तोतुमिच्छामि ब्रह्मज्योति:सनातनम्। निरूपितुमशक्तोऽहमनुरूपमनीहकम्॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्।
सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्।
वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम्॥
संसारार्णवपारे मायापोते सुदुर्लभे।
कर्णधारस्वरूपं भक्तानुग्रहकारकम्॥
वरं वरेण्यं वरदं वरदानामपीश्वरम्।
सिद्धं सिद्धिस्वरूपं सिद्धिदं सिद्धिसाधनम्॥
ध्यानातिरिक्तं ध्येयं ध्यानासाध्यं धार्मिकम्।
धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्॥
बीजं संसारवृक्षाणामङ्कुरं तदाश्रयम्।
स्त्रीपुन्नपुंसकानां रूपमेतदतीन्द्रियम्॥
सर्वाद्यमग्रपूज्यं सर्वपूज्यं गुणार्णवम्।
स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया॥
स्व्यं प्रकृतिरूपं प्राकृतं प्रकृते: परम्।
त्वां स्तोतुमक्षमोऽनन्त: सहस्त्रवदनेन च॥
क्षम: पञ्चवक्त्रश्च क्षमश्चतुरानन:
सरस्वती शक्ता शक्तोऽहं तव स्तुतौ॥
शक्ताश्च चतुर्वेदा: के वा ते वेदवादिन:
इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि।
सुरेशश्च सुरै: साद्र्ध विरराम रमापति:
इदं विष्णुकृतं स्तोत्रं गणेशस्य : पठेत्।
सायंप्रातश्च मध्याह्ने भक्तियुक्त : समाहित:
तद्विघन्निघन् कुरुते विघन्ेश: सततं मुने।
वर्धते सर्वकल्याणं कल्याणजनक: सदा॥
यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम्।
तस्य सर्वाभीष्टसिद्धिर्भवत्येव संशय:
तेन दृष्टं दु:स्वपन् सुस्वपन्मुपजायते।
कदापि भवेत्तस्य ग्रहपीडा दारुणा॥
भवेद् विनाश: शत्रूणां बन्धूनां विवर्धनम्।
शश्वद्विघन्विनाशश्च शश्वत् सम्पद्विवर्धनम्॥
स्थिरा भवेद् गृहे लक्ष्मी: पुत्रपौत्रविवर्धिनी।
सर्वैश्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत्॥
फलं चापि तीर्थानां यज्ञानां यद्भवेद् ध्रुवम्।
महतां सर्वदानानां श्रीगणेशप्रसादत:

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

नारायणहृदयस्तोत्रं Narayan hriday stotram

हनुमत्कृत सीतारामस्तोत्रम् Hanumatkrit Sitaram stotram