श्रीबिल्वाष्टकम्

श्रीबिल्वाष्टकम्


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।

त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥१॥


त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥२॥


अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥३॥


शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।

सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥४॥


दन्तिकोटि सहस्राणि वाजपेय शतानि च ।

कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥५॥


लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥६॥


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥७॥


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥८॥


बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।

सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥

॥ इति महादेवप्रिय श्रीबिल्वाष्टकम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram