भगवत्यष्टकम्
भगवत्यष्टकम्
नमोस्तु ते सरस्वति! त्रिशूलचक्रधारिणि!
सितांबरावृते! शुभे! मृगेन्द्रपीठसंस्थिते! ।
सुवर्णबन्धुराधरे सुझल्लरीशिरोरुहे ।
सुवर्णपद्मभूषिते नमोस्तु ते महेश्वरि! ॥१॥
पितामहादिभिर्नते स्वकान्तिलुप्तचन्द्रभे
सरत्नमालयावृते भवाब्धिकष्टहारिणि।
तमालहस्तमण्डिते तमालफालशोभिते
गिरामगोचरे इले नमोस्तु ते महेश्वरि! ॥२॥
स्वभक्तवत्सलेऽनघे सदापवर्गभोगदे
दरिद्रदुःखहारिणि त्रिलोकशंकरीश्वरि
भवानि भीम अंबिके प्रचण्डतेज उज्ज्वले
भुजाकलापमण्डिते नमोस्तु ते महेश्वरि! ॥३॥
प्रपन्नभीतिनाशिके! प्रसूनमाल्यकन्धरे
धियस्तमोनिवारिके! विशुद्धबुद्धिकारिके
सुरार्चिताङ्घ्रिपंकजे! प्रचण्डविक्रमेऽक्षरे!
विशालपद्मलोचने! नमोस्तु ते महेश्वरि! ॥४॥
ह्तस्त्वया स दैत्यधूम्रलोचनो यदा रणे
तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः ।
निरीक्ष्य तत्र ते प्रभामलज्जत प्रभाकर-
स्त्वये भयंकरे ध्रुवे नमोस्तु ते महेश्वरि!॥५॥
ननाद केसरी यदा चचाल मेदिनी तदा
जगाम दैत्यनायकः स्वसेनया द्रुतं भिया।
सकोपकंपदच्छदे स चण्डमुण्डघातिके
मृगेन्द्रनादनादिते नमोस्तु ते महेश्वरि! ॥६॥
कुचन्दनार्चितालके सितोष्णवारणाधरे
सवर्करानने वरे! निशुंभशुंभ मर्द्दिके ।
प्रसीद चण्डिके अजे समस्तदोषघातिके।
शुभां मतिप्रदेऽचले नमोस्तु ते महेश्वरि!॥७॥
त्वमेव विश्वधारिणी त्वमेव विश्वकारिणी
त्वमेव सर्वकारिणी न गम्यसेऽजितात्मभिः।
दिवौकसां हिते रता करोषि दैत्यनाशनं
शताक्षि रक्तदन्तिके नमोस्तु ते महेश्वरि!॥८॥
पठन्ति ये समाहिता इमं स्तवं सदा नरा
अनन्यभक्तिसंयुता अहर्मुखेऽनुवासरं ।
भवन्ति ते तु पण्डिताः सुपुत्रधान्यसंयुताः
कल्त्रभूतिसंयुता व्रजन्ति चामृतं सुखम् ॥९॥
अमरदासविरचितम् भगवत्यष्टकम्

टिप्पणियाँ