श्रीहरिशरणाष्टकम्


श्रीहरिशरणाष्टकम्
ध्येयं वदन्ति शिवमेव हि केचिदन्ये ।
शक्तिं गणेशमपरे तु दिवाकरं वै
रूपैस्तु तैरपि विभासि यतस्त्वमेव ।
तस्मात्त्वमेव शरणं मम दीनबन्धो
नो सोदरो न जनको जननी न जाया ।
नैवात्म्जोन च कुलं विपुलं बलं वा
संदृश्यते न किल कोऽपि सहायको मे।
तस्मात्त्वमेवशरणं मम दीनबन्धो
नोपासिता मदमपास्य मया महान्त ।
स्तीर्थानीचास्तिकधिया न हि सेवितानि
देवार्चनं च विधिवन्न कृतं कदापि ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
दुर्वासना मम सदा परिकर्पयन्ति ।
चित्तंशरीरमपि रोगगणा दहन्ति
संजीवनं च परहस्तगतं सदैव ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
पूर्व कृतानि दुरितानि मया तु यानि ।
स्मृत्वाखिलानिहृदयं परिकम्पते मे
ख्याता च ते पतितपावनता तुयस्मात् ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
दुःखं जराजननजं विविधाश्च रोगाः ।
काकश्वसूकरजनिर्निरये च पातः
ते विस्मृतेः फलमिदं विततं हि लोके ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि ।
ब्रूयात्तवाहमितियस्तु किलैकवारम्
तं यच्छसीश निजलोकमिति व्रतं ते ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
वेदेपु धर्मवचनेषु तथागमेपु ।
रामायणेऽपिच पुराण कदम्बके वा
सर्वत्र सर्वविधिना गदितस्त्वमेव ।
तस्मात्त्वमेवशरणं मम दीनबन्धो
इति श्रीस्वामीब्रह्मानन्दकृतंश्रीहरिशरणाष्टकम् सम्पूर्णम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram