श्रीहरिशरणाष्टकम्
श्रीहरिशरणाष्टकम् ध्येयं वदन्ति शिवमेव हि केचिदन्ये । शक्तिं गणेशमपरे तु दिवाकरं वै ॥ रूपैस्तु तैरपि विभासि यतस्त्वमेव । तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ नो सोदरो न जनको जननी न जाया । नैवात्म्जोन च कुलं विपुलं बलं वा ॥ संदृश्यते न किल कोऽपि सहायको मे। तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नोपासिता मदमपास्य मया महान्त । स्तीर्थानीचास्तिकधिया न हि सेवितानि ॥ देवार्चनं च विधिवन्न कृतं कदापि । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुर्वासना मम सदा परिकर्पयन्ति । चित्तंशरीरमपि रोगगणा दहन्ति ॥ संजीवनं च परहस्तगतं सदैव । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ पूर्व कृतानि दुरितानि मया तु यानि । स्मृत्वाखिलानिहृदयं परिकम्पते मे ॥ ख्याता च ते पतितपावनता तुयस्मात् । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुःखं जराजननजं विविधाश्च रोगाः । काकश्वसूकरजनिर्निरये च पातः ॥ ते विस्मृतेः फलमिदं विततं हि लोके । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि । ब्रूयात्तवाहमितियस्तु किलैकवारम् ॥ तं यच्छसीश निजलोकमिति व्रतं ते । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ वेदेपु धर्मवचनेषु तथागमेपु । रामायणेऽपिच पु...