वामनस्तोत्रं
वामनस्तोत्रम् ॥ ॐ नमो भगवते माधवाय ॥ |
। अदितिरुवाच । |
यज्ञेश यपक्षपुरुषाच्युत तीर्थपाद तीर्थश्रवःश्रवणमंगलामधेय । |
आपन्नलोकवृजिनोपशमोदयाऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ १ ॥ |
विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भूम्ने । |
स्वस्थाय शश्वदुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥ |
आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणास्त्रिवर्गः । |
ज्ञानं च केवलमनंत भवंति तुष्टोत्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥ |
॥ इति श्रीमद्भागवतांतर्गतं वामनस्तोत्रं संपूर्णम् ॥ |
टिप्पणियाँ