बुध कवचम् budh kavacham
बुध कवचम्
अस्य श्री बुध कवचस्य स्तोत्र मन्त्रस्य कश्यप- ऋषिः
अनुष्टुप्छन्दः बुधो देवता बुधप्रीत्यर्थ जपे विनियोगः |
बुधस्तु पुस्तकधरः कुङ्ग्कुमस्य समद्युतिः |
पीताम्बरधरःपातु पीतमाल्यानुलेपनः||
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोते पातु निशाप्रियः||
ध्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तक भूषणः ||
वक्षः पातु वराङ्गश्च हृदयं रोहिणी सुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः||
जानुनी रोहिणेयश्च पातु जङ्घेsखिलप्रदः |
पादौ मे बोधनःपातु पातु सौम्योsखिलं वपुः ||
एतद्धि कवचं दिव्यं सर्वपापप्रणासनम् |
सर्वरोगप्रशमनं सर्वदुःख-निवारणम् ||
आयुरारोग्यशुभदं पुत्र- पौत्र प्रवर्धनम् |
यः पठेत्श्रुणुयाद्sवापि सर्वत्र विजयी भवेत् ||
||इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ||

टिप्पणियाँ