शीतलाष्टकम् SHEETALASHTAKAM


                 शीतलाष्टकम्      SHEETALAASHTAKAM

अस्य श्री शीतलास्तोत्र मन्त्रस्य महादेव ऋषिः अनुष्टुप् छन्दः शीतला देवीं
महालक्ष्मीर्बीजम्  श्रीभवानी शक्तिः सर्वाविस्फोटकनिवृत्तये जपे विनियोगः ।
              ॥ भगवानुवाच ॥
वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बरम् ।
मार्जनीकलशोपेताम्   शूर्पालंकृतमस्तकाम् ॥ १ ॥
वन्देऽहं  शीतलां  देवीं   सर्वरोगभयापहाम् ।
यामासाद्य  निवर्तेत  विस्फोटकभयं  महत् ॥ २ ॥
शीतले  शितले  चेति  यो  ब्रूयद्दाहपीडितः ।
विस्फोटकभयं  घोरं  क्षिप्रं  तस्य प्रणश्यति ॥ ३ ॥
यस्त्वामुद्कमध्ये  तु  धृत्वा  पूजयते   नरः ।
विस्फोटकभयं  घोरं  गृहे  तस्य   जायते ॥ ४ ॥
शीतले   ज्वरदग्धस्य   पूतिगन्धयुतस्य  च ।
प्रणष्टचक्षुषः       पुंसस्त्वामाहुर्जीवनौष्धम् ॥ ५ ॥
शीतले तनुजान्रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदिर्णानां   त्वमेकाऽमृतवर्षिणी ॥ ६ ॥
गलगण्डग्रह्या रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण  शीतले  यान्ति  संक्षयम् ॥ ७ ॥
 मन्त्रो  नौषधं  तस्य  पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥
मृणालतन्तुसदृशीं  नाभिहृन्म  यसंस्थिताम् ।

       || इति श्री शीतलाष्टकम सम्पूर्णं ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram