श्रीपशुपत्यष्टकं
श्रीपशुपत्यष्टकं
पशुपतींद्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कलवशंगतं भजत रे मनुजा गिरजापतिम् ॥ २ ॥
मुरजडिं डिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् ।
प्रथम भूतगनैरपि सेवितं भजत रे मनुजा गिरजापतिम् ॥ ३ ॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नुतं नृणाम् ।
अभयदं करुणावरुणालयं भजत रे मनुजा गिरजापतिम् ॥ ४ ॥
नरसिरोरचित्तं मणिकुंडलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरजापतिम् ॥ ५ ॥
मखविनाशकरं शशिशेखरं सततमध्वरभाजिकफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरजापतिम् ॥ ६ ॥
मदमपास्य चिरंह्रदि संस्थितं मरणजन्मजराभयनीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरजापतिम् ॥ ७ ॥
हरिविरंचिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरजापतिम् ॥ ८ ॥
पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपति सूरिणा ।
पठति संश्रृणुते मनुज: सदा शिवपुरीं वसते लभते मुदम् ॥ ९ ॥
॥ इति श्रीपशुपत्यष्टकं सम्पूर्णम् ॥
टिप्पणियाँ