गणेशपञ्चरत्नस्तोत्रं
गणेशपञ्चरत्नस्तोत्रं
मुदा करात्तमोदकं सदा विमुक्तिसाधकं |
कलाधरावतन्सकं विलासिलोकरज्जकं ||
अनायकैकनायकं विनाशितेभदैत्यकं |
नतशुभाsशुनाशकं नमामि तं विनायकं ||
नतेतरातिभीकरं नवोदितार्कभास्वरं |
नमत्सुरारिनिर्जरं नतधिकापदुदधरं ||
सुरेश्वरम् निधिध्वरम् गजेश्वरं गणेश्वरं |
महेश्वरं तमाश्रये परात्परं निरन्तरं ||
समस्तलोकशंकरं निरस्तदैत्यकुन्जरं |
दरेतरोदरं वरं वरेभ-वक्त्रमक्षरं||
कृपाकरं क्षमाकरं मुदाकरं यशस्करं |
मनस्करं नमस्कृतां नमस्करोमि भास्वरं ||
अकिन्च्नार्तिमार्जनं चिरन्तनोक्तिभाजनं |
पुरारिपूर्वनन्दनं सूरारिगर्वचर्वणं ||
प्रपन्चनाशभीषणं धनञ्जयादिभूषणं |
कपोलदानवारणं भजे पुराणवारणं ||
नितान्त कान्तदन्त कान्तिमन्त कान्तकात्मज |
मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनं ||
हृदन्तरे निरन्तरं वसन्त मेव योगिनां |
तमेकदन्तमेव तं विचिन्तयामिसंततं ||
महागणेशपञ्चरत्नमादरेण योन्वहं |
प्रगायति प्रभातके हृदि स्मरन् गणेश्वरं ||
अरोग्तामदोषतां सुसाहितीं सुपुत्रतां |
समाहितयुरष्टभूतिमभ्युपैति सोsचिरात् ||
|| इति श्रीशङ्करभगवतः कृतौ गणेशपञ्चरत्नस्तोत्रं संपूर्णं ||
टिप्पणियाँ