लक्ष्मीस्तोत्रम् Lakshmi Stotram

लक्ष्मीस्तोत्रम्

क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे |

शुद्धसत्वस्वरुपे च कोपादिपरिवर्जिते ||
उपमे सर्वसाध्वीनां देवीनां देवपूजिते |

त्वया बिना जगत्सर्वम् मृततुल्यं च निष्फलं ||

सर्वसंपत्स्वरुपा त्वम् सर्वेषां सर्वरूपिणी |

रासेश्वर्यधिदेवी त्वं त्व्त्कला: सर्वयोषितः ||

कैलासे पार्वती त्वम् च क्षीरोदे सिन्धुकन्यका |

स्वर्गे च स्वर्गलक्ष्मीस्त्वम् मर्त्यलक्ष्मीश्च भूतले ||
वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती |

गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ||

कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् |

रासे - रासेश्वरी त्वं च वृन्दावनवने वने ||

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने |

विरजा चम्पक वने शत-शृङ्गे च सुन्दरी ||

पद्मावती पद्मवने मालती मालतीवने |

कुन्ददन्ती कुन्दवने सुशीला केतकीवने ||

कदम्बमाला त्वं देवीं कदम्बकाननेSपी च |

राजलक्ष्मी राजगेहे गृहलक्ष्मीर्गृहे गृहे ||

इतयुक्त्वा देवताः सर्वे मुनयो मनवस्तथा |

रुरुदुर्नम्रवदनाः शुष्ककन्ठोस्ठतालुकाः ||

इति लक्ष्मीस्त्वम् पुण्यं सर्वदेवः कृतं शुभं |

यः पठेत् प्रातरुत्थाय स वै सर्व लभेद् ध्रुवम् ||

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् |

सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीं ||

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वरां |

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनं ||

परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनं |

भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियं ||

हतबन्धुर्लभेद बन्धुं धनभ्रष्टो धनंलभेत् |

कीर्तिहीनो लभेत् कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् ||

सर्वमङ्गल इदं स्तोत्रम् शोक-संताप नाशनं |

हर्षानन्दकरं शश्व्द्धर्ममोक्ष सुहृत्प्रदं ||

|| इति देवकृत लक्ष्मीस्तोत्रम् संपूर्णं ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram