जामदग्न्यकृतं श्रीशिवस्तोत्रं
जामदग्न्यकृतं श्रीशिवस्तोत्रं ईश त्वां स्तोतुमिच्छामि सर्वथा सतोतुमक्षमम् । अक्षराक्षरबीजं च किं वा स्तौमि निरीहकम् ॥१॥ न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः। वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥२॥ बुद्धेर्वाग्मनसोः पारं सारात्सारं परात्परम् । ज्ञानबुर्द्धेरसाध्यं च सिद्धं सिद्धैर्निषेवितम् ॥३॥ यमाकाशमिवाद्यन्तमध्यहीनं तथाव्ययम् । विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥४॥ ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम्। त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥५॥ अद्य मे सफ़लं जन्म जीवितं च सुजीवितम् । स्वप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना ॥६॥ शक्रादयः सुरगणाः कलया यस्य सम्भवाः । चराचराः कलांशेन तं नमामि महेश्वरम् ॥७॥ यं भास्करस्वरूपं च शशिरूपं हुताशनम् । जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥८॥ स्त्रीरूपं क्लीबरूपं च पुंरूपं च बिभर्ति यः । सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥९॥ देव्या कठोरतपसा यो लब्धो ग...