श्रीशंकराष्टकम्
श्रीशंकराष्टकम् शीर्षजटागणभारं गरलाहारं समस्तसंहारम् । कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥ चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालम् । कृतनरमस्तकमालं कालं कालस्य मोमलं वन्दे ॥ २ ॥ कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् । संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥ कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् । विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥ त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैवसंशान्तम् । लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥ ५ ॥ सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदयालयावेशम् । विगतास्जेषक्लेशं ...