श्री बगलाप्रत्यंगिरा कवचम्
श्री बगलाप्रत्यंगिरा कवचम् शिव उवाच अधुनाऽहं प्रवक्ष्यामि बगलायाःसुदुर्लभम् । यस्य पठन मात्रेण पवनोपि स्थिरायते ॥ प्रत्यंगिरां तां देवेशि श्रृणुष्व कमलानने । यस्य स्मरण मात्रेण शत्रवो विलयं गताः ॥ श्री देव्युवाच स्नेहोऽस्ति यदि मे नाथ संसारार्णव तारक । तथा कथय मां शम्भो बगलाप्रत्यंगिरा मम ॥ श्री भैरव उवाच यं यं प्रार्थयते मन्त्री हठात्तंतमवाप्नुयात् । विद्वेषणाकर्षणे च स्तम्भनं वैरिणां विभो ॥ उच्चाटनं मारणं च येन कर्तुं क्षमो भवेत् । तत्सर्वं ब्रूहि मे देव यदि मां दयसे हर ॥ शिवउवाच अधुना हि महादेवि परानिष्ठा मतिर्भवेत् । अतएव महेशानि किंचिन्न वक्तुतुमर्हसि ॥ श्री पार्वत्युवाच जिघान्सन्तं तेन ब्रह्महा भवेत् । श्रृति...