विष्णुकृत गणेशस्तोत्रम्
विष्णुकृत गणेश स्तोत्रम् नारायण उवाच अथ विष्णु : सभामध्ये सम्पूज्य तं गणेश्वरम्। तृष्टाव परया भक्त्या सर्वविघन्विनाशकम्॥ श्रीविष्णुरुवाच ईशत्वां स्तोतुमिच्छामि ब्रह्मज्योति : सनातनम्। निरूपितुमशक्तोऽहमनुरूपमनीहकम्॥ प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम्। सर्वस्वरूपं सर्वेशं ज्ञानराशिस्वरूपिणम्॥ अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरूपिणम्। वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम्॥ संसारार्णवपारे च मायापोते सुदुर्लभे। कर्णधारस्वरूपं च भक्तानुग्रहकारकम्॥ वरं वरेण्यं वरदं वरदानामपीश्वरम्। सिद्धं सिद्धिस्वरूपं च सिद्धिदं सिद्धिसाधनम्॥ ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम्। धर्मस्वरूपं धर्मज्ञं धर्माधर्मफलप्रदम्॥ बीजं स...