अहिल्याकृतश्रीरामस्तोत्रम्
अहिल्याकृतश्रीरामस्तोत्रम् अहो कृतार्थाऽस्मि जगन्निवास ते पदाब्जसंलग्नरजःकणादहं। स्पृशामि यत्पद्मजशङ्करादिभि- र्विमृश्यते रन्धितमानसैः सदा ॥१॥ अहो विचित्रं तव राम चेष्टितम् मनुष्यभावेन विमोहितं जगत्। चलस्यजस्रं चरणादि वर्जितः संपूर्ण आनन्दमयोऽतिमायिकः॥२॥ यत्पादपंकजपरागविचित्रगात्रा भागीरथी भवविरिञ्चमुखान् पुनाति। साक्षात् स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥३॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्। धनुर्द्धरं पद्मविलोललोचनं भजामि नित्यं न परान् भजिष्ये ॥४॥ यत्पादपङ्कजरजःश्रुतिभिर्विमृग्यं यन्नाभिपंकजभवः कमलासनश्च। यन्नामसाररसिको भगवान् पुरारिः तं रामचन्द्रमनिशं हृदि भावयामि ॥५॥ यस्यावतारचरितानि विरिञ्चलोके गायन्ति नारदमुखाभवपद्मजाद्याः। आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपद्ये ॥६॥ सोयं परात्मा पुरुषः पुराण एषः स्वयंज्योतिरनन्त आद्यः। मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एव रामः ॥७॥ अयं हि विश्वोद्भवसंयमाना- मेकः स्वमायागुणबिम्बितो यः। विरिञ्चिविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्रः परिपूर्ण अत्मा ॥८॥ नमोस्तु ते राम तवाङ्घ्रिपं...