संदेश

श्रीहरिशरणाष्टकम्

श्रीहरिशरणाष्टकम् ध्येयं वदन्ति शिवमेव हि केचिदन्ये । शक्तिं गणेशमपरे तु दिवाकरं वै ॥ रूपैस्तु तैरपि विभासि यतस्त्वमेव । तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ नो सोदरो न जनको जननी न जाया । नैवात्म्जोन च कुलं विपुलं बलं वा ॥ संदृश्यते न किल कोऽपि सहायको मे। तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नोपासिता मदमपास्य मया महान्त । स्तीर्थानीचास्तिकधिया न हि सेवितानि ॥ देवार्चनं च विधिवन्न कृतं कदापि । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुर्वासना मम सदा परिकर्पयन्ति । चित्तंशरीरमपि रोगगणा दहन्ति ॥ संजीवनं च परहस्तगतं सदैव । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ पूर्व कृतानि दुरितानि मया तु यानि । स्मृत्वाखिलानिहृदयं परिकम्पते मे ॥ ख्याता च ते पतितपावनता तुयस्मात् । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुःखं जराजननजं विविधाश्च रोगाः । काकश्वसूकरजनिर्निरये च पातः ॥ ते विस्मृतेः फलमिदं विततं हि लोके । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि । ब्रूयात्तवाहमितियस्तु किलैकवारम् ॥ तं यच्छसीश निजलोकमिति व्रतं ते । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ वेदेपु धर्मवचनेषु तथागमेपु । रामायणेऽपिच पु...

श्रीपरमेश्वरस्तोत्रम् Shree Parmeshwar stotram

श्रीपरमेश्वरस्तोत्रम् जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पित:। प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम्॥ 1 ॥ गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम्। तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ॥ 2 ॥ मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो। करुणाब्धिचलोर्मिजलानयनं जनतारण तारय तापितकम् ॥ 3 ॥ भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमत:। करुणाञ्च सम‌र्प्य तरिं त्वरितं जनतारण तारय तापितकम् ॥ 4 ॥ अतिनाश्य जनुर्मम पुण्यरुचे दुरितौघभरै: परिपूर्णभुव:। सुजघन्यमगण्यमपुण्यरुचिं जनतारण तारय तापितकम् ॥ 5 ॥ भवकारक नारकहारक हे भवतारक पातकदारक हे। हर शङ्कर किङ्करकर्मचयं जनतारण तारय तापितकम् ॥ 6 ॥ तृषितश्चिरमस्मि सुधां हित मे- च्युत चिन्मय देहि वदान्यवर। अतिमोहवशेन विनष्टकृतं जनतारण तारय तापितकम् ॥ 7 ॥ प्रणमामि नमामि नमामि भवं भवजन्मकृतिप्रणिषूदनकम्। गुणहीनमतन्तमितं शरणं जनतारण तारय तापितकम् ॥ 8 ॥ ॥ इति परमेश्वरस्तोत्रं सम्पूर्णम् ॥

गणेशस्तोत्रं Ganesh stotram

गणेशस्तोत्रं सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम्। चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम्॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्‍‌नकङ्कणं प्रशोभिताङ्घियष्टिकम्। प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्‍‌नहेमनूपुरप्रशोभिताङ्घ्रिपङ्कजम्॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रदेन्दुसुन्दरं युगक्षणप्रमोदितम्। कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजे गजेन्द्ररूपिणम्॥ विरिञ्चविष्णुवन्दितं विरूपलोचनस्तुतं गिरीशदर्शनेच्छया समर्पितं पराम्बया। निरन्तरं सुरासुरै: सपुत्रवामलोचनै: महामखेष्टकर्मसु स्मृतं भजामि तुन्दिलम्॥ मदौघलुब्धचञ्चलालिमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम्। अनन्यभक्तिमानवं प्रचण्डमुक्तिदायं नमामि नित्यमादरेण वक्रतुण्डनायकम्॥ दारिद्रयविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्त्रमादरात्। पुत्री कलत्रस्वजनेषु मैत्री पुमान् भवेदेकवरप्रसादात्॥ ॥ इति शंकराचार्य विरचितं गणेशस्तोत्रं सपूर्ण ॥

अर्गलास्तोत्रम् Argala Stotram

अर्गलास्तोत्रम् अस्य श्रीअर्गलस्तोत्रमंत्रस्य विष्णुऋषिः , अनुष्टुप् छन्दः , श्रीमहालक्ष्मीर्देवता , श्रीजगदंबाप्रीतये सप्तशतीपाठाङ्गजपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥ दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥१॥ मधुकैटभविद्रावि विधातृवरदे नमः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥२॥ महिषासुरनिर्नाशविधात्रि वरदे नमः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥३॥ वन्दितांघ्रियगे देवि सर्वसौभाग्यदायिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥४॥ रक्तबीजवधे देवि चंडमुंडविनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥५॥ अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥६॥ नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥७॥ स्तुवद्भयो भक्तिपूर्व त्वां चण्डिके व्याधिनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥८॥ चण्डिके सततं ये त्वामर्चयंतीह भक्तितः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥९॥ देहि सौभाग्यम...

श्रीरघुनाथाष्टकं Shree Raghunathashtakam

श्रीरघुनाथाष्टकम्‌ शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्‌ । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्‌ ॥१॥ निहन्तारं शैवं धनुरिभ इवेष्टिं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्‌ । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं॥२॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितम्‌ । ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्‌ । विरुपाद्राक्षस्याः प्रियविरहसन्तप्तमनसं ससीतं॥३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसंमेलनसुखम्‌ । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं॥४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम्‌ । विशुद्धामर्धांगी हुतभुजि समीक्षन्तमचलं ससीतं॥५॥ विमानं चारुह्यानुजजनकजासेवितपदमयोध्यायां गत्वा नृपषदमवाप्तारमजरम्‌ । सुयज्ञैस्तृप्तारं निजमुखसुरान्‌ शान्तमनसं ससीतं... ॥६॥ प्रजांसंस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम्‌ । नृषु प्रेमोदृकं निखिलमनुजानां हितकरं सतीतं... ॥७॥ तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुख...

वामनस्तोत्रं

वामनस्तोत्रम् ॥ ॐ नमो भगवते माधवाय ॥ । अदितिरुवाच । यज्ञेश यपक्षपुरुषाच्युत तीर्थपाद तीर्थश्रवःश्रवणमंगलामधेय । आपन्नलोकवृजिनोपशमोदयाऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ १ ॥ विश्वा य विश्व भवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भूम्ने । स्वस्थाय शश्व दुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥ आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनंत भवंति तुष्टोत्त्वत्तो नृणां किमु सपत् ‍ नजयादिराशीः ॥ ३ ॥ ॥ इति श्रीमद्भागवतांतर्गतं वामनस्तोत्रं संपूर्णम् ॥

नृसिंहावतारस्तोत्रं narasimhavtaar stotram

नृसिंहावतारस्तोत्रं ॥ ॐ नमो भगवते गोविन्दाय ॥ ब्रह्मा उवाचः नतोऽस्म्यनंताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥ १ ॥ श्रीरुद्र उवाच ॥ कोपकालो युगांतस्ते हतोऽयमसुरोऽल्पकः । तस्सुतं पाह्यु पसृतं भक्तं ते भक्तवत्सल ॥ २ ॥ ॥ इन्द्र उवाच ॥ प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं ह्रदयकमलं त्वद् ‌ गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहापरैः किम् ॥ ३ ॥ ॥ ऋषय ऊचुः ॥ त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ॥ तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४ ॥ ॥ पितर ऊचुः ॥ श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर...