शिवषडाक्षरस्तोत्रम् shiv shadakshar stotram
शिवषडाक्षरस्तोत्रम् ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: । कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥ नमंतिऋषयो देवा नमन्त्यप्सरसां गणा: । नरा नमन्तिदेवेशं नकाराय नमो नम: ॥ २ ॥ महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नम: ॥ ३ ॥ शिवं शांन्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥ वाहनं वृषभो यस्य वासुकि: कण्ठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥ यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : । यो गुरुः सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥ षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥ ॥ इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम् ॥