संदेश

ऋषियाज्ञवल्क्यविरचितं लेबल वाली पोस्ट दिखाई जा रही हैं

सूर्यकवचस्तोत्रं soorya kavach stotram

      ऋषियाज्ञवल्क्य उवाच: श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । आयुरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥   देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् । ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥ शिरो मे भास्कर:पातु ललाटं मेऽमितद्युति: । नेत्रे दिनमणि:पातु श्रवणे वासरेश्‍वर: ॥३॥ घ्राणं घर्मघृणि:पातु वदनं वेदवाहन: । जिह्वां मे मानद:पातु कण्ठं मे सुरवंदित: ॥४॥ स्कंधौ प्रभाकर: पातु वक्ष:पातु जनप्रिय: । पातु पादौ द्वादशात्मा सर्वांगं सकलेश्‍वर: ॥५॥   सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥६॥ सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: । स रोगमुक्तो दीर्घायु: सुखं-पुष्टिं च विंदति ॥७॥   ॥   इति ऋषियाज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ॥