संदेश

Shree Vishnu लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीहरिशरणाष्टकम्

श्रीहरिशरणाष्टकम् ध्येयं वदन्ति शिवमेव हि केचिदन्ये । शक्तिं गणेशमपरे तु दिवाकरं वै ॥ रूपैस्तु तैरपि विभासि यतस्त्वमेव । तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ नो सोदरो न जनको जननी न जाया । नैवात्म्जोन च कुलं विपुलं बलं वा ॥ संदृश्यते न किल कोऽपि सहायको मे। तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नोपासिता मदमपास्य मया महान्त । स्तीर्थानीचास्तिकधिया न हि सेवितानि ॥ देवार्चनं च विधिवन्न कृतं कदापि । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुर्वासना मम सदा परिकर्पयन्ति । चित्तंशरीरमपि रोगगणा दहन्ति ॥ संजीवनं च परहस्तगतं सदैव । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ पूर्व कृतानि दुरितानि मया तु यानि । स्मृत्वाखिलानिहृदयं परिकम्पते मे ॥ ख्याता च ते पतितपावनता तुयस्मात् । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुःखं जराजननजं विविधाश्च रोगाः । काकश्वसूकरजनिर्निरये च पातः ॥ ते विस्मृतेः फलमिदं विततं हि लोके । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि । ब्रूयात्तवाहमितियस्तु किलैकवारम् ॥ तं यच्छसीश निजलोकमिति व्रतं ते । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ वेदेपु धर्मवचनेषु तथागमेपु । रामायणेऽपिच पु...

श्रीपरमेश्वरस्तोत्रम् Shree Parmeshwar stotram

श्रीपरमेश्वरस्तोत्रम् जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पित:। प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम्॥ 1 ॥ गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम्। तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ॥ 2 ॥ मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो। करुणाब्धिचलोर्मिजलानयनं जनतारण तारय तापितकम् ॥ 3 ॥ भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमत:। करुणाञ्च सम‌र्प्य तरिं त्वरितं जनतारण तारय तापितकम् ॥ 4 ॥ अतिनाश्य जनुर्मम पुण्यरुचे दुरितौघभरै: परिपूर्णभुव:। सुजघन्यमगण्यमपुण्यरुचिं जनतारण तारय तापितकम् ॥ 5 ॥ भवकारक नारकहारक हे भवतारक पातकदारक हे। हर शङ्कर किङ्करकर्मचयं जनतारण तारय तापितकम् ॥ 6 ॥ तृषितश्चिरमस्मि सुधां हित मे- च्युत चिन्मय देहि वदान्यवर। अतिमोहवशेन विनष्टकृतं जनतारण तारय तापितकम् ॥ 7 ॥ प्रणमामि नमामि नमामि भवं भवजन्मकृतिप्रणिषूदनकम्। गुणहीनमतन्तमितं शरणं जनतारण तारय तापितकम् ॥ 8 ॥ ॥ इति परमेश्वरस्तोत्रं सम्पूर्णम् ॥

नारायणहृदयस्तोत्रं Narayan hriday stotram

अल्प लोगों को ज्ञात इस श्लोक का पाठ सचमुच आश्चर्यचकित करने वाले सुपरिणाम देता है | इसका प्रयोग वास्तव में सुबुद्धि प्रदान करता है | प्रत्येक शुक्रवार को लक्ष्मीहृदयस्तोत्र सहित तय नियमों के साथ पढ़ा जाने पर यह दिव्य शक्ति,सिद्धि, आरोग्य,तथा दीर्घायु भी प्रदान करता है | नारायणहृदयस्तोत्रं ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः| करन्यास:- ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः| ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः|ॐ नारायणः परो देव इति मध्य्माभ्यान्मः |ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः |ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः|ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः| एवं हृदयविन्यासः | ध्यानं उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं | शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं || 'ॐ नमो भगवते नारायणाय ' इति मन्त्रं जपेत् | श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः...