मत्स्यावतार स्तोत्रम् matsyavataar stotram
मत्स्यावतार स्तोत्रम् नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः । अनुग्रहाय भूतानां धत्सेरुपंजलौकसाम् ॥ १ ॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्योह्यात्मगतिर्विभो ॥ २ ॥ सर्वेलीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवताधृतम् ॥ ३ ॥ न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुह्रत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४ ॥ इति श्रीमद्-भागवतपुराणे मत्स्यावता र स्तोत्रं सपूर्णम् ।