श्रीहरिशरणाष्टकम्
श्रीहरिशरणाष्टकम्
ध्येयं वदन्ति शिवमेव हि केचिदन्ये ।
शक्तिं गणेशमपरे तु दिवाकरं वै ॥
रूपैस्तु तैरपि विभासि यतस्त्वमेव ।
तस्मात्त्वमेव शरणं मम दीनबन्धो॥
नो सोदरो न जनको जननी न जाया ।
नैवात्म्जोन च कुलं विपुलं बलं वा॥
संदृश्यते न किल कोऽपि सहायको मे।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
नोपासिता मदमपास्य मया महान्त ।
स्तीर्थानीचास्तिकधिया न हि सेवितानि॥
देवार्चनं च विधिवन्न कृतं कदापि ।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
दुर्वासना मम सदा परिकर्पयन्ति ।
चित्तंशरीरमपि रोगगणा दहन्ति॥
संजीवनं च परहस्तगतं सदैव ।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
पूर्व कृतानि दुरितानि मया तु यानि ।
स्मृत्वाखिलानिहृदयं परिकम्पते मे॥
ख्याता च ते पतितपावनता तुयस्मात् ।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
दुःखं जराजननजं विविधाश्च रोगाः ।
काकश्वसूकरजनिर्निरये च पातः॥
ते विस्मृतेः फलमिदं विततं हि लोके ।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि ।
ब्रूयात्तवाहमितियस्तु किलैकवारम् ॥
तं यच्छसीश निजलोकमिति व्रतं ते ।
तस्मात्त्वमेवशरणं मम दीनबन्धो॥
वेदेपु धर्मवचनेषु तथागमेपु ।
रामायणेऽपिच पुराण कदम्बके वा॥
सर्वत्र सर्वविधिना गदितस्त्वमेव ।
तस्मात्त्वमेवशरणं मम दीनबन्धो ॥
॥इति श्रीस्वामीब्रह्मानन्दकृतंश्रीहरिशरणाष्टकम् सम्पूर्णम् ॥
टिप्पणियाँ