श्री विष्णुसहस्त्रनामस्तोत्रम् Shree Vishnu sahastranaam stotram
श्री विष्णुसहस्त्रनाम ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ स्तोत्र यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ नमः समस्तभुतानामादिभुताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥ युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येक...