संदेश

॥ श्रीरघुनाथाष्टकं संपूर्ण ॥ लेबल वाली पोस्ट दिखाई जा रही हैं

श्रीरघुनाथाष्टकं Shree Raghunathashtakam

श्रीरघुनाथाष्टकम्‌ शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्‌ । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्‌ ॥१॥ निहन्तारं शैवं धनुरिभ इवेष्टिं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्‌ । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं॥२॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितम्‌ । ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्‌ । विरुपाद्राक्षस्याः प्रियविरहसन्तप्तमनसं ससीतं॥३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसंमेलनसुखम्‌ । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं॥४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम्‌ । विशुद्धामर्धांगी हुतभुजि समीक्षन्तमचलं ससीतं॥५॥ विमानं चारुह्यानुजजनकजासेवितपदमयोध्यायां गत्वा नृपषदमवाप्तारमजरम्‌ । सुयज्ञैस्तृप्तारं निजमुखसुरान्‌ शान्तमनसं ससीतं... ॥६॥ प्रजांसंस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम्‌ । नृषु प्रेमोदृकं निखिलमनुजानां हितकरं सतीतं... ॥७॥ तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुख...