निशुम्भ-शुम्भ-मर्दिनी प्रचण्ड-मुण्ड-खण्डनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ।।१।।
त्रिशूल मुण्डधारिणीं धराविघात- हारिणीम् ।
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ।।२।।
दरिद्र-दु:ख-हारिणीं सतां विभूतिकारिणीम् ।
वियोग-शोक-हारिणीं भजामि विन्ध्यवासिनीम् ।।३।।
लसत्सुलोललोचनं लतासदेवरप्रदम् ।
कपाल-शूलधारिणीं भजामि विन्ध्यवासिनीम् ।।४।।
करे मुद्रा गदाधरो शिवां शिवप्रदायिनीम् ।
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ।।५।।
ऋषीन्द्रयामिनिप्रदं त्रिधास्यरूपधारिणीम् ।
जले-स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ।।६।।
विशिष्ट-सृष्टि-कारिणीं विशाल - रूपधारिणीम् ।
महोदरे विलाशिनीं भजामि विन्ध्यवासिनीम् ।।७।।
पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।
विशुद्ध-बुद्धि-कारिणीं भजामि विन्ध्यवासिनीम् ।।८।।
टिप्पणियाँ