संदेश

संकठानामाष्टकम्

संकठा नामाष्टकम् आनन्दकानने देवी सं कठा नाम विश्रुता। वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च   ॥१॥ शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणां । सं कठा प्रथमं नाम द्वितीयं विजया तथा ॥२॥ तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी। शर्वाणी पञ्चमं नाम षष्ठं कार्त्यायनी तथा॥३॥ सप्तमं भीमनयना सर्वरोगहराष्टमं नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः यः पठेत् पाठयेद्वापि नरो मुच्येत सं कठा ॥४॥

हनुमत्कृत सीताराम स्तोत्रम्

          हनुमत्कृत सीताराम स्तोत्रम्                      ॥ ध्यानम् ॥ मन्दाराकृति पुण्यधाम विलसत् वक्षस्थलं कोमलम् शान्तं कान्तमहेन्द्रनील रुचिराभासं सहस्राननम् । वन्देहं रघुनन्दनं सुरपतिं कोदण्ड दीक्षागुरुं रामं सर्वजगत् सुसेवितपदं सीतामनोवल्लभम् ॥                    ॥ स्तोत्रम् ॥ अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥२॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥ चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् । मत्तमातङ्गगमनम् मत्तहंसवधूगताम् ॥५॥ चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् । चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥६॥ शरणागतगो...

जामदग्न्यकृतं श्रीशिवस्तोत्रं

जामदग्न्यकृतं श्रीशिवस्तोत्रं   ईश त्वां स्तोतुमिच्छामि सर्वथा सतोतुमक्षमम् ।   अक्षराक्षरबीजं च किं वा स्तौमि निरीहकम् ॥१॥ न योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः। वेदा न शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥२॥ बुद्धेर्वाग्मनसोः पारं सारात्सारं परात्परम् । ज्ञानबुर्द्धेरसाध्यं च सिद्धं सिद्धैर्निषेवितम् ॥३॥ यमाकाशमिवाद्यन्तमध्यहीनं तथाव्ययम् । विश्वतन्त्रमतन्त्रं च स्वतन्त्रं तन्त्रबीजकम् ॥४॥ ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम्। त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥५॥ अद्य मे सफ़लं जन्म जीवितं च सुजीवितम् ।   स्वप्रादृष्टं च भक्तानां पश्यामि चक्षुषाधुना ॥६॥ शक्रादयः सुरगणाः कलया यस्य सम्भवाः । चराचराः कलांशेन तं नमामि महेश्वरम् ॥७॥ यं भास्करस्वरूपं च शशिरूपं हुताशनम् । जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥८॥ स्त्रीरूपं क्लीबरूपं च पुंरूपं च बिभर्ति यः । सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥९॥ देव्या कठोरतपसा यो लब्धो ग...

विष्णुमहिम्नस्तोत्रम्

श्रीविष्णु-महिम्नस्तोत्रम्   महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्यप्यज्ञश्चलमतिरहो नाथ नु कथम् । विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥ १॥ यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽपरे बुद्धं चान्ये शिवमपि च धातारमपरे । तथा शक्तिं केचिद्गणपतिमुतार्कं च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥ २॥ शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः । दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥ ३॥ क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित्खर्वो रामो दशरथसुतो नन्दतनयः । क्वचिद्बुद्धः कल्किर्विहरसि कुभारापहृतये स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम् ॥ ४॥ हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो । क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधेरशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् ॥ ५॥ निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषाऽऽविश्य गहनम् । पयोराशिं पृष्ठे तमजित सलीलं घृतवतो ज...