संदेश

अगस्त, 2012 की पोस्ट दिखाई जा रही हैं

हरिस्तोत्रम् Hari strotram

हरिस्तोत्रम् जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालम् । नभोनीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥१॥ सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासम् । गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥२॥ रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारम् । चिदानन्दरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजेऽहं भजेऽहम् ॥३॥ जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनम् । जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥४॥ कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानम् । स्वभक्तानुकूलं जगद्वृक्षमूलं निरस्तार्तशूलं भजेऽहं भजेऽहम् ॥५॥ समस्तामरेशं द्विरेफाभकेशं जगद्बिम्बलेशं हृदाकाशदेशम् । सदा दिव्यदेहं विमुक्ताखिलेहं सुवैकुण्ठगेहं भजेऽहं भजेऽहम् ॥६॥ सुरालिबलिष्ठं त्रिलोकीवरिष्ठं गुरूणां गरिष्ठं स्वरूपैकनिष्ठम् । सदा युद्धधीरं महावीरवीरं महाम्भोधितीरं भजेऽहं भजेऽहम् ॥७॥ रमावामभागं तलानग्रनागं कृताधीनयागं गतारागरागम् । मुनीन्द्रैः सुगीतं सुरैः सम्परीतं गुणौधैरतीतं भजेऽहं भजेऽहम् ॥८॥ इदं यस्तु नित्यं समा

हरिद्रागणेशकवचम् Haridra Ganesh kawacham

हरिद्रागणेशकवचम् ईश्वर उवाच श्रृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये । पठित्वा पाठयित्वा च मुच्यते सर्वसङ्कटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् । सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥२॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि । सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥३॥ गणाक्रीडो नेत्रयुगं नासायां गणनायकः । गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥४॥ जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा । विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥५॥ गणानां नायकः पातु बाहुयुग्मं सदा मम । विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥६॥ गजवक्त्रः कटीदेशे एकदन्तो नितम्बके । लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥७॥ व्यालयज्ञोपवीती मां पातु पादयुगे सदा । जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥८॥ हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः । य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥९॥ कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् । सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥१०॥ सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् । सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ

शालिग्रामस्तोत्रम् SHALIGRAM STOTRAM

शालिग्रामस्तोत्रम् अस्य श्रीशालिग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः , नारायणो देवता , अनुष्टुप् छन्दः , श्रीशालिग्रामस्तोत्रमन्त्रजपे विनियोगः ॥ युधिष्ठिर उवाच श्रीदेवदेव देवेश देवतार्चनमुत्तमम् । तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तमः ॥१॥ श्रीभगवान उवाच गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे । दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥ शालिग्रामो भवेद्देवो देवी द्वारावती भवेत् । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥३॥ शालिग्रामशिला यत्र-यत्र द्वारावती शिला । उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥४॥ आजन्मकृतपापानां प्रायश्चित्तं य इच्छति । शालिग्रामशिलावारि पापहारि नमोऽस्तु ते ॥५॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥ शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥ स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् । प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥ अग्निष्टोमसहस्राणि वाजपेयशतानि च । सम्यक् फलमवाप्न

अघनाशकगायत्रीस्तोत्र aghnashak gayatri stotram

अघनाशकगायत्रीस्तोत्र आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तुते ॥१॥ त्वमेव संध्या गायत्री सावित्रि च सरस्वती । ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥२॥ प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥३॥ हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥४॥ यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते । सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥५॥ रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥६॥ सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥७॥ आनन्दजननी दुर्गा दशधा परिपठ्यते । वरेण्या वरदा चैव वरिष्ठा वरर्व्णिनी ॥८॥ गरिष्ठा च वराही च वरारोहा च सप्तमी । नीलगंगा तथा संध्या सर्वदा भोगमोक्षदा ॥९॥ भागीरथी मर्त्यलोके पाताले भोगवत्यपि ॥१०॥ त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥११॥ भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥१२॥

सदाशिवाष्टकम् Sadashivastakam

सदाशिवाष्टकम् पतञ्जलिःउवाच सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने सुपर्णवाहनप्रियाय सूर्यकोटितेजसे । अपर्णया विहारिणे फणाधरेन्द्रधारिणे सदा नमःशिवाय ते सदाशिवाय शंभवे ॥१॥ सतुङ्ग भङ्ग जह्नुजा सुधांशु खण्ड मौलये पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे । भुजङ्गराजमण्डलाय पुण्यशालिबन्धवे सदा नमःशिवाय ते सदाशिवाय शंभवे ॥२॥ चतुर्मुखाननारविन्दवेदगीतभूतये चतुर्भुजानुजाशरीरशोभमानमूर्तये । चतुर्विधार्थदानशौण्ड ताण्डवस्वरूपिणे सदा नमःशिवाय ते सदाशिवाय शंभवे ॥३॥ शरन्निशाकर प्रकाश मन्दहास मञ्जुला धरप्रवाल भासमान वक्त्रमण्डल श्रिये । करस्पुरत्कपालमुक्तरक्तविष्णुपालिने सदा नमःशिवाय ते सदाशिवाय शंभवे ॥४॥ सहस्र पुण्डरीक पूजनैक शून्यदर्शनात् सहस्रनेत्र कल्पितार्चनाच्युताय भक्तितः । सहस्रभानुमण्डलप्रकाशचक्रदायिने सदा नमःशिवाय ते सदाशिवाय शंभवे ॥५॥ रसारथाय रम्यपत्र भृद्रथाङ्गपाणये रसाधरेन्द्र चापशिञ्जिनीकृतानिलाशिने । स्वसारथीकृताजनुन्नवेदरूपवाजिने सदा नमःशिवाय ते सदाशिवाय शंभवे ॥६॥ अतिप्रगल्भ वीरभद्रसिंहनाद गर्जित श्रुतिप्रभीत दक्षयाग भोगिनाक सद्मनाम् ।

लिंगाष्टकम्

लिंगाष्टकम् ब्रह्ममुरारिसुरार्चितलिंङ्गं निर्मल-भाषित-शोभित लिंङ्गम् । जन्मज-दुःखविनाशकलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥ १॥ देवमुनि-प्रवरार्चित लिंङ्गं, कामदहं करुणाकर लिंङ्गम् । रावणदर्प-विनाशनलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥२॥ सर्वसुगंन्धि-सुलेपित लिंङ्गं, बुद्धिविवर्धन-कारण लिंङ्गंम् । सिद्ध-सुराऽसुरवन्दितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥३॥ कनक-महामणि-भूषितलिंङ्गं,फणिपति-वेष्टित-शोधित लिंङ्गम् । दक्षसुयज्ञ-विनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥४॥ कुंकुम-चंदनलेपित लिंङ्गं, पंङ्कजहार-सुशोभित लिंङ्गम् । संञ्चित-पापविनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥५॥ अष्टदलोपरि वेष्टितलिंङ्गं, सर्वसमुद्भव-कारणलिंङ्गम् । अष्टदरिद्र-विनाशितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥७॥ सुरगुरू-सुरवरपूजितलिंङ्गं, सुरवनपुष्प-सदार्चितलिंङ्गम् । परात्परं परमात्मकलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥ ८॥ ॥ इति श्री लिंगाष्टकम् सम्पूर्णम् ॥