संदेश

मई, 2012 की पोस्ट दिखाई जा रही हैं

श्रीहरिशरणाष्टकम्

श्रीहरिशरणाष्टकम् ध्येयं वदन्ति शिवमेव हि केचिदन्ये । शक्तिं गणेशमपरे तु दिवाकरं वै ॥ रूपैस्तु तैरपि विभासि यतस्त्वमेव । तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ नो सोदरो न जनको जननी न जाया । नैवात्म्जोन च कुलं विपुलं बलं वा ॥ संदृश्यते न किल कोऽपि सहायको मे। तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नोपासिता मदमपास्य मया महान्त । स्तीर्थानीचास्तिकधिया न हि सेवितानि ॥ देवार्चनं च विधिवन्न कृतं कदापि । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुर्वासना मम सदा परिकर्पयन्ति । चित्तंशरीरमपि रोगगणा दहन्ति ॥ संजीवनं च परहस्तगतं सदैव । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ पूर्व कृतानि दुरितानि मया तु यानि । स्मृत्वाखिलानिहृदयं परिकम्पते मे ॥ ख्याता च ते पतितपावनता तुयस्मात् । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ दुःखं जराजननजं विविधाश्च रोगाः । काकश्वसूकरजनिर्निरये च पातः ॥ ते विस्मृतेः फलमिदं विततं हि लोके । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ नीचोऽपि पापवलितोऽपिवि निन्दितोऽपि । ब्रूयात्तवाहमितियस्तु किलैकवारम् ॥ तं यच्छसीश निजलोकमिति व्रतं ते । तस्मात्त्वमेवशरणं मम दीनबन्धो ॥ वेदेपु धर्मवचनेषु तथागमेपु । रामायणेऽपिच पु

श्रीपरमेश्वरस्तोत्रम् Shree Parmeshwar stotram

श्रीपरमेश्वरस्तोत्रम् जगदीश सुधीश भवेश विभो परमेश परात्पर पूत पित:। प्रणतं पतितं हतबुद्धिबलं जनतारण तारय तापितकम्॥ 1 ॥ गुणहीनसुदीनमलीनमतिं त्वयि पातरि दातरि चापरतिम्। तमसा रजसावृतवृत्तिमिमं जनतारण तारय तापितकम् ॥ 2 ॥ मम जीवनमीनमिमं पतितं मरुघोरभुवीह सुवीहमहो। करुणाब्धिचलोर्मिजलानयनं जनतारण तारय तापितकम् ॥ 3 ॥ भववारण कारण कर्मततौ भवसिन्धुजले शिव मग्नमत:। करुणाञ्च सम‌र्प्य तरिं त्वरितं जनतारण तारय तापितकम् ॥ 4 ॥ अतिनाश्य जनुर्मम पुण्यरुचे दुरितौघभरै: परिपूर्णभुव:। सुजघन्यमगण्यमपुण्यरुचिं जनतारण तारय तापितकम् ॥ 5 ॥ भवकारक नारकहारक हे भवतारक पातकदारक हे। हर शङ्कर किङ्करकर्मचयं जनतारण तारय तापितकम् ॥ 6 ॥ तृषितश्चिरमस्मि सुधां हित मे- च्युत चिन्मय देहि वदान्यवर। अतिमोहवशेन विनष्टकृतं जनतारण तारय तापितकम् ॥ 7 ॥ प्रणमामि नमामि नमामि भवं भवजन्मकृतिप्रणिषूदनकम्। गुणहीनमतन्तमितं शरणं जनतारण तारय तापितकम् ॥ 8 ॥ ॥ इति परमेश्वरस्तोत्रं सम्पूर्णम् ॥