संदेश

अप्रैल, 2012 की पोस्ट दिखाई जा रही हैं

गणेशस्तोत्रं Ganesh stotram

गणेशस्तोत्रं सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम्। चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम्॥ किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्‍‌नकङ्कणं प्रशोभिताङ्घियष्टिकम्। प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्‍‌नहेमनूपुरप्रशोभिताङ्घ्रिपङ्कजम्॥ सुवर्णदण्डमण्डितप्रचण्डचारुचामरं गृहप्रदेन्दुसुन्दरं युगक्षणप्रमोदितम्। कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं षडक्षरस्वरूपिणं भजे गजेन्द्ररूपिणम्॥ विरिञ्चविष्णुवन्दितं विरूपलोचनस्तुतं गिरीशदर्शनेच्छया समर्पितं पराम्बया। निरन्तरं सुरासुरै: सपुत्रवामलोचनै: महामखेष्टकर्मसु स्मृतं भजामि तुन्दिलम्॥ मदौघलुब्धचञ्चलालिमञ्जुगुञ्जितारवं प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम्। अनन्यभक्तिमानवं प्रचण्डमुक्तिदायं नमामि नित्यमादरेण वक्रतुण्डनायकम्॥ दारिद्रयविद्रावणमाशु कामदं स्तोत्रं पठेदेतदजस्त्रमादरात्। पुत्री कलत्रस्वजनेषु मैत्री पुमान् भवेदेकवरप्रसादात्॥ ॥ इति शंकराचार्य विरचितं गणेशस्तोत्रं सपूर्ण ॥

अर्गलास्तोत्रम् Argala Stotram

अर्गलास्तोत्रम् अस्य श्रीअर्गलस्तोत्रमंत्रस्य विष्णुऋषिः , अनुष्टुप् छन्दः , श्रीमहालक्ष्मीर्देवता , श्रीजगदंबाप्रीतये सप्तशतीपाठाङ्गजपे विनियोगः ॥ ॐ नमश्चण्डिकायै ॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी ॥ दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥१॥ मधुकैटभविद्रावि विधातृवरदे नमः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥२॥ महिषासुरनिर्नाशविधात्रि वरदे नमः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥३॥ वन्दितांघ्रियगे देवि सर्वसौभाग्यदायिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥४॥ रक्तबीजवधे देवि चंडमुंडविनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥५॥ अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥६॥ नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥७॥ स्तुवद्भयो भक्तिपूर्व त्वां चण्डिके व्याधिनाशिनि ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥८॥ चण्डिके सततं ये त्वामर्चयंतीह भक्तितः ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥९॥ देहि सौभाग्यम

श्रीरघुनाथाष्टकं Shree Raghunathashtakam

श्रीरघुनाथाष्टकम्‌ शुनासीराधीशैरवनितलज्ञप्तीडितगुणं प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्‌ । सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्‌ ॥१॥ निहन्तारं शैवं धनुरिभ इवेष्टिं नृपगणे पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्‌ । विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं॥२॥ गुरोराज्ञां नीत्वा वनमनुगतं दारसहितम्‌ । ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्‌ । विरुपाद्राक्षस्याः प्रियविरहसन्तप्तमनसं ससीतं॥३॥ विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं गतं पम्पातीरे पवनसुतसंमेलनसुखम्‌ । गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं॥४॥ प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम्‌ । विशुद्धामर्धांगी हुतभुजि समीक्षन्तमचलं ससीतं॥५॥ विमानं चारुह्यानुजजनकजासेवितपदमयोध्यायां गत्वा नृपषदमवाप्तारमजरम्‌ । सुयज्ञैस्तृप्तारं निजमुखसुरान्‌ शान्तमनसं ससीतं... ॥६॥ प्रजांसंस्थातारं विहितनिजधर्मे श्रुतिपथं सदाचारं वेदोदितमपि च कर्तारमखिलम्‌ । नृषु प्रेमोदृकं निखिलमनुजानां हितकरं सतीतं... ॥७॥ तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुख

वामनस्तोत्रं

वामनस्तोत्रम् ॥ ॐ नमो भगवते माधवाय ॥ । अदितिरुवाच । यज्ञेश यपक्षपुरुषाच्युत तीर्थपाद तीर्थश्रवःश्रवणमंगलामधेय । आपन्नलोकवृजिनोपशमोदयाऽद्य शं नः कृधीश भगवन्नसि दीननाथः ॥ १ ॥ विश्वा य विश्व भवनस्थितिसंयमाय स्वैरं गृहीतपुरुषक्तिगुणाय भूम्ने । स्वस्थाय शश्व दुपबृंहितपूर्णबोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥ आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर्द्यौर्भूरसाः सकलयोगगुणास्त्रिवर्गः । ज्ञानं च केवलमनंत भवंति तुष्टोत्त्वत्तो नृणां किमु सपत् ‍ नजयादिराशीः ॥ ३ ॥ ॥ इति श्रीमद्भागवतांतर्गतं वामनस्तोत्रं संपूर्णम् ॥

नृसिंहावतारस्तोत्रं narasimhavtaar stotram

नृसिंहावतारस्तोत्रं ॥ ॐ नमो भगवते गोविन्दाय ॥ ब्रह्मा उवाचः नतोऽस्म्यनंताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया संदधतेऽव्ययात्मने ॥ १ ॥ श्रीरुद्र उवाच ॥ कोपकालो युगांतस्ते हतोऽयमसुरोऽल्पकः । तस्सुतं पाह्यु पसृतं भक्तं ते भक्तवत्सल ॥ २ ॥ ॥ इन्द्र उवाच ॥ प्रत्यानीताः परम भवता त्रायता नः स्वभागा दैत्याक्रान्तं ह्रदयकमलं त्वद् ‌ गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां नहि बहुमता नारसिंहापरैः किम् ॥ ३ ॥ ॥ ऋषय ऊचुः ॥ त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज ॥ तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४ ॥ ॥ पितर ऊचुः ॥ श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर
वराहवतार स्तोत्रं ॥ॐ नमो भगवते वासुदेवाय ॥ ऋषिः उवाच जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं त्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १ ॥ रूपं तवैतन्ननु दुष्कृतात्मनाम दुर्दर्शनं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङघ्रिषु चातुर्होत्रम् ॥ २ ॥ स्रुक् तुण्ड आसीत्स्त्रुव ईश नाशयोरिडोदरे चमसाः कर्णरंध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥ दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥ सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसंधिस्त्वं सर्वयज्ञकृतुरिष्टिबन्धनः ॥ ५ ॥ नमो नमस्तेऽखिलमन्त्रदेवताद्रव

सूर्यकवचस्तोत्रं soorya kavach stotram

      ऋषियाज्ञवल्क्य उवाच: श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । आयुरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥   देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् । ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥ शिरो मे भास्कर:पातु ललाटं मेऽमितद्युति: । नेत्रे दिनमणि:पातु श्रवणे वासरेश्‍वर: ॥३॥ घ्राणं घर्मघृणि:पातु वदनं वेदवाहन: । जिह्वां मे मानद:पातु कण्ठं मे सुरवंदित: ॥४॥ स्कंधौ प्रभाकर: पातु वक्ष:पातु जनप्रिय: । पातु पादौ द्वादशात्मा सर्वांगं सकलेश्‍वर: ॥५॥   सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥६॥ सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: । स रोगमुक्तो दीर्घायु: सुखं-पुष्टिं च विंदति ॥७॥   ॥   इति ऋषियाज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ॥       

महासरस्वती स्तोत्र

ऋषि याज्ञवल्क्य कृत   महासरस्वती स्तोत्रम्  याज्ञवल्क्य उवाच— कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशपात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥१॥ ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् । ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥२॥ प्रतिभां सत्सभायां च विचार क्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनःकुरु ॥३॥ यथांकुरुं भस्मानि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ॥४॥ सर्वविद्याधिदेवी या तस्यै वाण्यै नमोनमः । विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥५॥ तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥६॥ यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते । कालसंख्यारूपा या तस्यै देव्यै नमोनमः ॥७॥ भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमोनमः । स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥८॥ प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥९॥ बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः । तदा जगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥१०॥ उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते

ऋषिअगस्त्यविरचितं श्रीमहालक्ष्मीस्तोत्रं

  ऋषि अगस्त्यकृत महालक्ष्मीस्तोत्रम् । पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥3॥ जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥ नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥ रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे । दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥ नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥ विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥ अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥ नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः । परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥ शरर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये । त्राहि-त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥ पांडित्यं

अष्टलक्ष्मीस्तोत्रम् ASTALAKSHMI STOTRAM

अष्टलक्ष्मीस्तोत्रम् ॥ आदिलक्ष्मी ॥ सुमनसवन्दित सुन्दरि-माधवि चन्द्र सहोदरि हेममये । मुनिगणमण्डित मोक्षप्रदायिनि मञ्जुलभाषिणि वेदनुते॥ पंकजवासिनि देवसुपूजित सदगुणवर्षिणि शान्तियुते। जय-जय हे मधुसूदन कामिनि आदिलक्ष्मि सदा पालय माम्॥१॥ ॥ धान्यलक्ष्मी ॥ अहिकलि कल्मषनाशिनि कामिनि वैदिकरूपिणि वेदमये। क्षीरसमुद्भव मंगलरूपिणि मन्त्रनिवासिनि मन्त्रनुते॥ मंगलदायिनि अम्बुजवासिनि देवगणाश्रित पादयुते। जय-जय हे मधुसूदन कामिनि धान्यलक्ष्मि सदा पालय माम्॥२॥ ॥ धैर्यलक्ष्मी ॥ जयवरवर्णिनि वैष्णवि भार्गवि मन्त्रस्व रूपिणि मन्त्रमये। सुरगणपूजित शीघ्रफलप्रद ज्ञानविकासिनि शास्त्रनुते॥ भवभयहारिणि पापविमोचनि साधुजनाश्रित पादयुते। जय-जय हे मधुसूदन कामिनि धैर्यलक्ष्मि सदा पालय माम्॥३॥ ॥ गजलक्ष्मी ॥ जय-जय दुर्गतिनाशिनि कामिनि सर्वफलप्रद शास्त्रमये। रथगज तुरगपदादि समावृत परिजनमण्डित लोकनुते॥ हरिहर ब्रह्म सुपूजित सेवित तापनिवारिणि पादयुते। जय-जय हे मधुसूदन कामिनि गजलक्ष्मि रूपेण पालय माम्॥४॥ ॥ सन्तानलक्ष्मी ॥ अहिख